पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
[भ्वादि
सिध्दान्तकौमुदीसहिता

मितः' (ग सू १८७) मित्संज्ञका इत्यर्थः । 'जनीजॄष्न्कसुरञ्जोऽमन्ताश्च' (ग सू १८८) 'मितः' इत्यनुवर्तते । 'जॄष्' इति षित्त्वनिर्देशाज्जीर्यतेर्ग्रहणम् । जृणातेस्तु जारयति । केचित्तु 'जनी जॄ ष्णसु-' इति पठित्वा 'ष्णसु निरसने' इति दैवादिकमुदाहरन्ति । 'ज्वलह्वलह्मलनमामनुपसर्गाद्वा' (ग सू १८९) एषां मित्त्वं वा । प्राप्तविभाषेयम् । ज्वलयति-ज्वालयति । उपसृष्टे तु नित्यं मित्त्वम् । प्रज्वलयति । कथं तर्हि प्रज्वालयति उन्नामयतीति । घञन्तात् 'तत्करोति-' इति णौ । कथं संक्रामयतीति । 'मितां ह्रस्वः' (सू २५६८) इति सूत्रे 'वा चित्तविरागे' (सू २६०५) इत्यतो 'वा' इत्यनुवर्त्त्य व्यवस्थितविभाषाश्रयणादिति वृत्तिकृत् । एतेन 'रजो विश्रामयन् राज्ञां' 'धुर्यान्विश्रामयेति


इति पठिष्यमाणस्य स्वनेरवतसनेऽर्थे णौ मित्त्वार्थोऽत्रानुवाद इत्यर्थ । धात्वन्तरत्वे तु मित्त्वतदभावौ स्यातामिति भावः । स्वनयतीति ॥ भूषयतीत्यर्थः । अन्यत्रेति ॥ अवतसनादन्यत्र शब्देऽर्थे णौ मित्त्वाभावान्न ह्रस्व इति भाव । घटादयो मित इति ॥ गणसूत्रम् । ननु घटादिषु मकारानुबन्धादर्शनात्कथ मितस्ते स्युरित्यत आह । मित्संज्ञका इति ॥ मित्कार्यभाज इत्यर्थः । जनीजॄषिति ॥ गणसूत्रम् । जनी जॄष क्नसु रञ्ज एषान्द्वन्द्वात्प्रथमाबहुवचनम् । अम् अन्ते येषान्ते अमन्ताः । क्रमिगम्यादय. । एते अघटादित्वेऽपि मित इत्यर्थः । जीर्यतेरिति ॥ 'जॄष् वयोहानौ' इति श्यन्विकरणस्येत्यर्थः । जृणातेस्त्विति ॥ 'जॄ वयोहानौ' इति श्नाविकरणस्य षित्त्वाभावेनात्र ग्रहणाभावान्न मित्त्वमिति भावः । उदाहरन्तीति ॥ तन्मते जृणातेरपि मित्त्वमिति भावः । ज्वलह्वल ॥ इत्यपि गणसूत्रम् । प्राप्तविभाषेयमिति ॥ ज्वलह्वलह्मलाङ्घटादित्वान्नमेर्मान्तत्वाच्च मित्त्वस्य प्राप्तेरिति भावः । उपसृष्टे त्विति ॥ सोपसर्गे त्वित्यर्थ । कथं तर्हीति ॥ अनुपसर्गादिति विशेषणे सति ज्वलेर्नमेश्च णौ मित्त्वविकल्पाभावाज्जनीजॄषिति मित्त्वाध्द्रस्वो नित्यः स्यादित्याक्षेपः । समाधत्ते । घञन्तादिति । तत्करोतीति ॥ णावित्यनन्तर समाधेयमिति शेषः । प्रज्वलन प्रज्वालः । उन्नमनम् उन्नाम । भावे घञ् । उपधावृद्धिः । प्रज्वालङ्करोतीति उन्नामङ्करोतीति चार्थे 'तत्करोति तदाचष्टे' इति णिचि 'णाविष्ठवत्' इति इष्ठवत्त्वात् टिलोपे सति तस्य स्थानिवत्त्वात् मित्त्वप्रयुक्तह्रस्वाभावे प्रज्वालि उन्नामि इत्याभ्यां लटि तिपि शपि गुणे अयादेशे प्रज्वालयति उन्नामयतीति रूपे इति भाव । ननु सम्पूर्वात् क्रमेर्णौ सङ्क्रामयतीति रूपमिष्यते । तत्र अमन्तत्वे मित्त्वाध्द्रस्वप्रसङ्गः । नच क्रमणङ्क्राम इति घञन्तात्तत्करोतीति णावुक्तरीत्या ह्रस्वाभाव इति समाधान सम्भवति । क्रमेर्घञिहि 'नोदात्तोपददेशस्य' इति वृद्धिप्रतिषेधे सति क्रम इत्येव भवति । नतु क्राम इति कृत्वा उक्तसमाधानासम्भवादित्यभिप्रेत्याक्षिपति । कथमिति ॥ समाधत्ते । मितामिति ॥ 'मितां ह्रस्वः' इति सूत्रे वेत्यनुवर्त्य मित्त्वाभावे सक्रामयतीति रूपमित्यन्वयः । ननु कदाचिध्द्रस्वो दुर्वार इत्यत आह । व्यवस्थितेति ॥ तथाचात्र ह्रस्वाभाव एवाश्रीयत इति