पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१२७
बालमनोरमा ।

तृतीयातत्पुरुषो वा । लडयति जिह्वया । अन्ये तु जिह्वाशब्देन तद्व्यापारो लक्ष्यते । समाहारद्वन्द्वोऽयम् । लडयति शत्रुम् । लडयति दधि । अन्यत्र लाडयति पुत्रम् । मदी ८१५ हर्षग्लेपनयोः । ग्लेपनं दैन्यम् । दैवादिकस्य मित्त्वार्थोऽयमनुवादः । मदयति हर्षयति ग्लेपयति वेत्यर्थः । अन्यत्र मादयति चित्तविकारमुत्पादयतीत्यर्थः । ध्वन ८१६ शब्दे । भाव्ययं मित्त्वार्थमनूद्यते । ध्वनयति घण्टाम् । अन्यत्र ध्वानयति । अस्पष्टाक्षरमुच्चारयतीत्यर्थः । अत्र भोज: 'दलिवलिस्खलिराणिध्वनित्रपिक्षपयश्च' इति पपाठ । तत्र 'ध्वनिरणी' उदाहृतौ । 'दल विशरणे' । 'वल संवरणे' 'स्खल सञ्चलने' 'त्रपूष् लज्जायाम्' इति गताः । तेषां णौ दलयति । वलयति । स्खलयति । त्रपयति । 'क्षौ क्षये' इति वक्ष्यमाणस्य कृतात्वस्य पुका निर्देशः । क्षपयति । स्वन ८१७ अवतंसने । शब्दे इति पठिष्यमाणस्यानुवादः । स्वनयति । अन्यत्र स्वानयति । 'घटादयो


जिह्वामिति ॥ रसना रसान् ज्ञापयतीत्यर्थः । 'गतिबुद्धि' इति द्विकर्मकोऽयम् । लडयति जिह्वयेति ॥ देवदत्तो रसान् जानाति तज्जिह्वया ज्ञापयतीत्यर्थः । तव्द्यापार इति ॥ शब्दप्रयोगादिजिह्वाव्यापार इत्यर्थः । समाहारेति ॥ जिह्वाच उन्मथनञ्चेति समाहारद्वन्द्व । जिह्वाव्यापारे उदाहरति । लडयति शत्रुमिति ॥ गेहे शूर इत्यादिशब्दप्रयोगेण गर्हत इत्यर्थः । उन्मथन लोडन इत्यभिप्रेत्योदाहरति । लडयति दधीति ॥ विलोडयतीत्यर्थः । अन्यत्रेति ॥ जिह्वोन्मथनादन्यत्रेत्यर्थ । लाडयति पुत्रमिति ॥ क्रीडयतीत्यर्थः । ग्लेपनन्दैन्यमिति ॥ दीनीभवनमित्यर्थः । ननु लडादौ शपि मदतीत्यादि स्यादित्यत आह । दैवादिकस्येति ॥ तथाच श्यन्विकरण एवायमिति भाव । ध्वन शब्दे इति ॥ पूर्वमनुनासिकान्तेषु अणरणेत्यत्र 'ध्वणधातुर्मूर्धन्यान्त पठितः । अयन्तु दन्त्यान्त इति भेदः । भावीति ॥ ज्वलादौ 'ध्वन शब्दे' इति पठिष्यमाण एवात्र ध्वन्यात्मके अनुच्चारणजन्ये शब्दने मित्त्वार्थमनूद्यते इत्यर्थः । धातुभेदे तु मित्त्वतदभावौ स्यातामिति भावः । ध्वनयति घण्टामिति ॥ शब्दायमानाङ्करोतीत्यर्थः । अन्यत्रेति ॥ अस्पष्टोच्चारणात्मके शब्दने इत्यर्थः । अत्रेति ॥ घटादावित्यर्थः । तत्रेति ॥ दलिवल्यादिष्वित्यर्थः । उदाहृताविति ॥ घटादाविति शेष । तत्र ध्वनिरनुपदमेवोदाहृत. । कणिस्तु कणरणगतावित्यत्रेति बोध्द्यम् । भोजमते प्रागनयो पाठो नेति न पौनरुक्त्यम् । गता इति ॥ भ्वादौ पठिता इत्यर्थः । इह मित्त्वार्थमनूद्यन्त इति शेष । धात्वन्तरत्वे मित्त्वतदभावौ स्यातामिति भाव । ननु क्षपेरत्र पाठान्मित्त्वे णौ ह्रस्वे क्षपयतीति वक्ष्यति । अस्त्वेवम् । तथापि क्षै क्षये इति भ्वादौ पठिष्यमाणस्य णौ आत्वे पुकि क्षापयतीत्यपि स्यात् । क्षै धातोः क्षपीत्यनुवादासम्भवात् । तत्राह । क्षै इत्यादि ॥ णौ आत्वे पुकि मित्त्वाद्ध्रस्वे सति क्षपीति क्षै इत्यस्यानुवादसम्भव इति भाव । स्वन अवतंसने इति ॥ अवतंसन अलङ्कृतिः । पठिष्यमाणस्येति ॥ घटादिगणादूर्ध्वं स्वनशब्दे