पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
[भ्वादि
सिध्दान्तकौमुदीसहिता

निशानेष्विति पठतां हरदत्तादीनां मते तु न काप्यनुपपत्तिः । कम्पने चलिः ८१२ । चल कम्पने इति ज्वलादिः । चलयति शाखाम् । कम्पनादन्यत्र तु शीलं चालयति । अन्यथा करोतीत्यर्थः । 'हरतीत्यर्थः' इति स्वामी । सूत्रं चालयति । क्षिपतीत्यर्थः । छदिर् ८१३ ऊर्जने । 'छद अपवारणे' इति चौरादिकस्य स्वार्थे णिजभावे मित्त्वार्थोऽयमनुवादः । अनेकार्थत्वादूर्जेरर्थे वृत्तिः । छदन्तं प्रयुङ्के छदयति । बलवन्तं प्राणवन्तं वा करोतीत्यर्थः । अन्यत्र छादयति । अपवारयन्तं प्रयुङ्क्ते इत्यर्थः । स्वार्थे णिचि तु छादयति । बलीभवति प्राणीभवति अपवारयति वेत्यर्थः । जिह्वोन्मथने लडिः ८१४ । 'लड विलासे' इति पठितस्य मित्त्वार्थोऽनुवादः । उन्मथनं क्षोभणम् । जिह्वाशब्देन षष्ठीतत्पुरुषः । लडयति जिह्वाम् ।


विज्ञापनेति, ज्ञापयतीति च रूपमिति शेष । 'नान्ये मितोऽहेतौ' इति निषेधान्न तस्य मित्त्वमिति भावः । ननु नियोगार्थस्य तस्य कथं ज्ञापने वृत्तिरित्यत आह । धातूनामिति । न कापीति ॥ विज्ञापनेत्यत्र ज्ञापयतीत्यत्र च ज्ञापनार्थवृत्तित्वात् ज्ञापनस्य च मारणतोषणतीक्ष्णीकरणान्यत्त्वान्न तस्मिन्नर्थे ज्ञाधातोर्मित्त्वप्रसक्तिरिति भावः । एवञ्च माधवमते बोधने ज्ञाधातो ज्ञापयतीत्युपधादीर्घः । ज्ञपधातोस्तु ज्ञपयतीत्युपधाह्रस्व इति रूपद्वयमपि सान्विति स्थितम् । कम्पने चलिरिति ॥ इका निर्देशोऽयम् । 'चलधातु कम्पने' मिदित्यर्थ । ज्वलादिरिति ॥ तस्य चलेः कम्पने मित्वार्थोऽत्रानुवाद इति भावः । शीलञ्चालयतीति ॥ अत्र कम्पनार्थकत्वाभावान्न मित्त्वमिति भाव । तदाह । अन्यथा करोतीत्यर्थ इति ॥ धातूनामनेकार्थत्वादिति भावः । छदिर् ऊर्जने इति ॥ इका निर्देशोऽयम् 'छद धातुरूर्जने' मिदित्यर्थः । ऊर्जन बलवत्करण प्राणन वा । ऊर्ज बलप्राणनयोरित्युक्ते । अन्यत्र पठितस्यात्रार्थविशेषे णौ मित्त्वार्थोऽनुवाद इति सिद्धान्तः । छदधातुस्त्वयञ्चुराद्यन्तर्गणे युजादौ पठितः । तस्यात्रानुवादो व्यर्थ । नान्ये मितोऽहेताविति ज्ञपादिपञ्चकव्यतिरिक्तस्य चुरादौ मित्त्वनिषेधादित्यत आह । छद अपवारणे इति ॥ चुराद्यन्तर्गणयुजादिपठितस्य 'आ धृपाद्वा' इति स्वार्थिकणिजभावपक्षे ऊर्जनेऽथे मित्त्वार्थोऽनुवाद इत्यर्थः । स्वार्थिकाणिचि सत्येव नान्ये मित इति निषेधप्रवृत्तेरिति भावः । नन्वपवारणार्थकस्य छदे कथमूर्जने वृत्तिरित्यत आह । अनेकार्थत्वादिति ॥ ननु स्वार्थणिजभावे सति मित्त्वङ्किमर्थमित्यत आह । छदन्तं प्रयुङ्क्ते छदयतीति ॥ अत्र हतुमण्णिचि ह्रस्वः । नान्ये मित इति निषेधस्य हेतुमण्णिचि निषेधः स्यादिति भावः । अन्यत्रेति ॥ ऊर्जनादन्यत्र अपवारणे इत्यर्थः । स्वार्थे णिचि त्विति ॥ 'नान्ये मित' इति निषेधस्य तत्र प्रवृत्तेरिति भावः । जिह्वोन्मथने लडिरिति ॥ इका निर्देशोऽयम् । लडधातुर्जिह्वोन्मथने मिदित्यर्थः । लडेति ॥ 'लड विलासे' इति टवर्गान्तेषु भ्वादौ पठितस्य जिह्वोन्मथनेऽर्थे मित्त्वार्थोऽनुवाद इत्यर्थः । एवञ्च धातुभेदाभावात् सर्वथैव मित्त्वकार्यम्फलति । गणभेदाद्धातुभेदे मित्त्वतदभावयोर्विकल्पः स्यादिति भावः । लडयति