पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१२३
बालमनोरमा ।

८०२ हिंसार्थाः । 'जासिनिप्रहण –' (सू ६१७) इति सूत्रे क्राथेति मित्त्वेऽपि वृद्धिर्निपात्यते । क्राथयति । मित्त्वन्तु निपातनात्परत्वात् 'चिण्णमुलोः' (सू २७६२) इति दीर्घे चरितार्थम् । अक्रथि-अक्राथि । क्रथं क्रथम् । क्राथं क्राथम् । वन ८०३ च । हिंसायामिति शेषः । वनु च नोच्यते । 'वनु' इत्यपूर्व एवायं धातुर्न तु तानादिकस्यानुवादः । उदित्करणसामर्थ्यात् । तेन क्रियासामान्ये वनतीत्यादि । प्रवनयति । अनुपस्पृष्टस्य तु मित्त्वविकल्पो वक्ष्यते । ज्वल ८०४ दीप्तौ । णप्रत्ययार्थं पठिष्यमाण एवायं मित्त्वार्थमनूद्यते । प्रज्वलयति । ह्वल ८०५ ह्मल ८०६ चलने । प्रह्वलयति । प्रह्मलयति ।


ककारादय । ननु क्रथधातोर्घटादित्वेन मित्त्वात् णौ उपधावृद्धिसम्पन्नस्य आकारस्य 'मिता ह्रस्व' इति ह्रस्वत्वे क्रथयतीति स्यात्, नतु क्राथयतीति । तत्राह । जासिनीति ॥ 'जासिनिप्रहणनाटकाथपिषा हिंसाया' इति षष्ठीविधौ णौ मित्त्वेऽपि क्राथेति वृद्धिर्निपात्यत इत्यर्थः । नन्वेव सति घटादौ क्रथधातो पाठो व्यर्थ इत्यत आह । मित्त्वं त्विति ॥ चिण्णमुलोर्दीर्घपक्षे चरितार्थमित्यन्वय । ननु तत्रापि क्राथेति निपातनाद्वृद्धिरित्यत आह । निपातनात्परत्वादिति ॥ क्राथेति निपातनापेक्षया चिण्णमुलोरित्यस्य परत्वादित्यर्थः । यद्यपि 'मितां ह्रस्व' इत्यपि परम् । तथापि पुरस्तादपवादन्यायेन क्राथेति वृद्धिनिपातन 'मितां ह्रस्व' इत्यस्यैवाव्यवहितस्य बाधक, नतु चिण्णमुलोरित्यस्यापि । तस्य व्यवहितत्वादिति योज्यम् । अक्रथि-अक्राथीति ॥ क्रथेर्ण्यन्ताच्चिणि दीर्घविकल्प । क्रथं क्रथम् । क्राथं क्राथमिति ॥ णमुलि दीर्घविकल्प । वन चेति ॥ चकारो हिंसानुकर्षक । तदाह । हिंसायामितीति । शेष इति ॥ वन शब्दे, वन सम्भक्ताविति पठितस्य हिंसायां मित्त्वार्थोऽत्रानुवाद । वनति । णौ तु वनयति । णमुल तु वन वनम् । वान वानम् । वनु च नोच्यते इति ॥ कगे नोच्यते इति वद्व्याख्येयम् । नन्वन्यत्र पठितस्य घटादौ मित्त्वार्थोऽनुवाद इति सिद्धान्तात्तनादौ 'वनु याचने' इति पठितस्य अनुदात्तेतोऽत्रानुवादात् क्रियासामान्येऽर्थे वनुते इत्यात्मनेपदम् उप्रत्ययश्च स्यादित्यत आह । अपूर्व एवायमिति । उदित्करणेति ॥ यदि तानादिकस्यैव अत्रानुवादः स्यात्, तर्हि तनादिगणे वनु इति कृतेन उदित्करणेनैव 'उदितो वा' इत्याद्युदित्कार्यस्य सिद्धेरिह गणे पुनरुदित्करणमनर्थक स्यात् । अतस्तानादिकस्य नात्रानुवादः । कित्वपूर्व एवायं वनुधातुः । तथा च वनतीति परस्मैपदं शब्विकरणश्चेत्याह । तेन क्रियासामान्ये वनतीत्यादीति ॥ आदिना वनतः वनन्तीत्यादिसङ्ग्रहः । प्रवनयतीति ॥ घाटादिकस्य क्रियासामान्यवाचिनो णिचि मित्त्वाध्द्रस्वः । वक्ष्यते इति ॥ 'ग्लास्नावनुवमाञ्च' इत्यनेनेति शेषः । तानादिकात्तु वनु याचने इत्यस्माण्णिचि उपधादीर्घे वानयतीत्येव भवति । ज्वल दीप्तौ । णप्रत्ययार्थमिति ॥ 'ज्वलितिकसन्तेभ्यो णः' इति णप्रत्ययार्थञ्ज्वलादिगणे पठिष्यमाणस्य इह मित्त्वार्थोऽनुवाद इत्यर्थः । ज्वलतीत्यादि सिद्धवत्कृत्य मित्त्वस्य णौ ह्रस्वम्प्रयोजनमाह । प्रज्वलयति इति ॥ धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति