स्मृ ८०७ आद्ध्याने । चिन्तायां पठिष्यमाणस्य आद्ध्याने मित्त्वार्थोऽनुवादः । आद्ध्यानमुत्कण्ठापूर्वकं स्मरणम् । दॄ ८०८ भये । 'दॄ विदारणे' इति क्र्यादेरयं मित्त्वार्थोऽनुवादः । दृणन्तं प्रेरयति दरयति । भयादन्यत्र दारयति । धात्वन्तरमेवेदमिति मते तु दरतीत्यादि । केचिद्घटादौ 'अत्स्मृदॄत्वर-'(सू २५६६) इति सूत्रे च 'दॄ' इति दीर्घस्थाने ह्रस्वं पठन्ति । तन्नेति माधवः । नॄ ८०९ नये । क्र्यादिषु पठिष्यमाणस्यानुवादः । नयादन्यत्र नारयति । श्रा ८१० पाके । श्रै इति कृतात्वस्य श्रा इत्यादादिकस्य च सामान्येनानुकरणम् । 'लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य' (प ९१) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्'
बोध्द्यम् । स्मृ आध्द्याने । चिन्तायामिति ॥ स्मृ चिन्तायामिति पठिष्यमाणस्य आव्द्याने मित्त्वार्थोऽनुवाद इत्यर्थः । चन्ताया आध्द्यानमन्यदिति दर्शयितुमाह । आध्द्यानमुत्कण्ठेति । दॄ भये इति ॥ अस्य दृणातीति रूप नतु शप् । तदाह । क्र्यादेरयं मित्त्वार्थोऽनुवाद इति ॥ भयेऽर्थे मित्त्वार्थमिति शेष । अर्थनिर्देशस्य उपलक्षणत्वात् भये वृत्तिः । तथाच क्र्यादित्वात् श्नाविकरण एवायमिति भाव । मित्त्वप्रयोजनन्दर्शयति । दृणन्तम्प्रेरयति दरयतीति ॥ भीषयतीत्यर्थः । भयादन्यत्र दारयतीति ॥ भेदयतीत्यर्थः । धात्वन्तरमेवेति ॥ नतु क्र्यादेरनुवाद इत्यर्थ । अस्मिन्मते भौवादिकत्वात् शबेवेत्याह। दरतीत्यादीति । सूत्रे चेति ॥ 'अत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम्' इति अत्वविधावित्यर्थः । ह्रस्वम्पठन्तीति ॥ तन्मते क्र्यादेरनुवादप्रसक्तिरेव नास्तीति भावः । तन्नेतीति ॥ यदि ह्ययङ्घटादौ ह्रस्वान्त क्र्यादौ तु दीर्घान्तो भवेत् तर्हि 'शॄदॄप्रां ह्रस्वो वा' इत्यत्र दॄग्रहणमनर्थक स्यात् । ह्रस्वदीर्घान्तधातुभ्यामेव तत्फलसिद्धेरिति भावः । नॄ नये इति ॥ नय नयनम् । क्र्यादिष्विति ॥ नॄ नये इत्येव क्र्यादिषु पठ्यते । तत्रार्थनिर्देशो न विवक्षितः । क्र्यादिषु पठिष्यमाणस्य नॄधातोर्नयादन्यत्र विद्यमानस्य नयेऽर्थे मित्त्वार्थोऽनुवाद इत्यर्थ । तथाच श्नाविकरण एवायम् । नृणातेर्धात्वन्तरत्वाभावान्नमित्त्वतदभावौ । अपि तु नित्यमेव मित्त्वम् । श्रा पाके इति ॥ नन्वत्र भ्वादौ पठ्यमानः च्छ्रायतेः, उत्तरत्र अदादो पठिष्यमाणाच्च श्रातेरन्य एव यदि कश्चन स्वतन्त्रो धातुर्घटादौ । निर्दिश्येत तदा प्रकृते लटि शपि श्रातीति रूपम्पत्त्या लुग्विकरणस्थेन श्रापाके इत्यनेन पौनरुक्त्यमित्यत आह । श्रै इतीति ॥ अग्रे भ्वादिगणे श्रै पाके इति पठिष्यते । तस्य कृतात्वस्यानुकरणमित्यन्वयः । तथाच तस्यैव श्रैधातोरनेकार्थकतया पाके वृत्तस्य मित्त्वार्थोऽत्रानुवादात् । शपि श्रायतीत्यादि रूपम् । एतच्च 'शृतम्पाके' इति सूत्रे भाष्यकैयटयौ. स्थितम् । एवञ्च सति सम्भवे अन्यत्र पठितानामिह मित्त्वार्थोऽनुवाद इति सिद्धान्तादग्रे भ्वादौ श्रै पाके इत्यस्य पौनरुक्त्य न शङ्क्यम् । नन्वेवं सति 'श्रै पाके' इत्येवात्र कुतो न पठितमित्यत आह । श्रा इत्यादादिकस्य चेति ॥ ननु लाक्षणिकत्वात् 'श्रै पाके' इति भौवादिकस्य कृतात्वस्याप्यनुवाद इति न युज्यते इत्यत आह । लुग्विकरणेत्यादि । परि