पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
[भ्वादि
सिध्दान्तकौमुदीसहिता

वाक्यार्थाभिनयो नाट्यम् । घटादौ तु नृत्तं नृत्यं चार्थः । यत्कारिषु नर्तकव्यपदेशः । पदार्थाभिनयो नृत्यम् । गात्रविक्षेपमात्रं नृत्तम् । केचित्तु घटादौ 'णट नतौ' इति पठन्ति । 'गतौ' इत्यन्ये । णोपदेशपर्युदासवाक्ये भाष्यकृता 'नाटि' इति दीर्घपाठाद्घटादिर्णोपदेश एव । ष्टक ७८२ प्रतीघाते । स्तकति । चक ७८३ तृप्तौ । तृप्तिप्रतीघातयोः पूर्वं पठितस्य तृप्तिमात्रे मित्त्वार्थोऽनुवादः । आत्मनेपदिषु पठितस्य परस्मैपदिष्वनुवादात्परस्मैपदम् । कखे ७८४ हसने । एदित्त्वान्न वृद्धिः । अकखीत् । रगे ७८५ शङ्कायाम् । लगे ७८६ सङ्गे । ह्रगे ७८७ ह्लगे ७८८ षगे ७८९ ष्टगे ७९० संवरणे । कगे ७९१ नोच्यते । 'अस्यायमर्थः' इति विशिष्य नोच्यते । क्रियासामान्यार्थवाचित्वात् । अनेकार्थत्वादित्यन्ये । अक ७९२ अग ७९३ कुटिलायां गतौ । कण ७९४ रण ७९५ गतौ । चकाण । रराण । चण ७९६ शण ७९७ श्रण ७९८ दाने च । 'शण गतौ' इत्यन्ये । श्रथ ७९९ क्नथ ८०० क्रथ ८०१ क्लथ


टवर्गान्तेषु पठितस्येत्यर्थः । यत्कारिष्विति ॥ यस्य कर्तृषु नटव्यवहार तन्नाट्य पर्वम्पठितस्य नटधातोरर्थ इत्यर्थः । किन्तन्नाट्यमित्यत आह । वाक्यार्थेति । घटादौ त्विति ॥ यस्य कर्तृषु नर्तकव्यपदेशः तत् नृत्य नृत्तञ्च घटादौ पठितस्य नटेरर्थ इत्यर्थः । नृत्यनृत्तयोः को भेद इत्यत आह । पदार्थेति ॥ एवञ्च टवर्गान्तेषु पठितस्य घटादिगतस्य चार्थभेदसत्त्वादर्थविशेषे मित्त्वार्थोऽनुवाद इति युज्यत इति भावः । हेत्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यात् । अथ नटधातोरस्य णोपदेशपर्युदासभ्रम वारयति । णोपदेशेति ॥ अनर्द्नाटीत्यादिपर्युदासवाक्ये नाटीति णिज्लक्षणवृद्धिनिर्देशेन 'नट अवस्पन्दने' इति चौरादिकस्यैव ग्रहणादय णोपदेश एवेत्यर्थः । ष्टकधातुष्षोपदेश । कृतष्टुत्वस्य निर्देशः । स्तकतीति ॥ 'धात्वादे' इति षस्य सत्वे ष्टुत्वनिवृत्तिः । चक तृप्तौ । तृप्तीति ॥ 'चक तृप्तौ प्रतीघाते च' इत्यात्मनेपदिषु पठितस्य तृप्तावर्थे मित्त्वार्थोऽत्रानुवाद इत्यर्थः । एवञ्च धात्वन्तरत्वाभावान्नमित्त्वतदभावविकल्पः । ननु आत्मनेपदिषु पठितस्यात्रानुवादादात्मनेपद स्यादित्यत आह । आत्मनेपदेष्विति । षगे ष्टगे इति ॥ षोपदेशौ । ष्टगे इति कृतष्टुत्वनिर्देशः । कगे नोच्यते इति ॥ ननु कगे इत्यनेन यदि किमपि नोच्येत, तर्हि कथमस्य धातुत्वमित्यत आह । अस्यायमिति ॥ क्रियाविशेषो नास्यार्थ इति भावः । ननु यदि न कोपि क्रियाविशेषोऽस्यार्थः तर्हि कथमयं धातुरित्यत आह । क्रियासामान्यार्थवाचित्वादिति ॥ धातुपाठपठितस्य क्रियाविशेषार्थकत्वाभावे सति क्रियासामान्यवाचित्वम्परिशेषलभ्यमिति भावः । अनेकेति ॥ कलिः कामधेनुरिति न्यायेन कलधातुवदपरिमितार्थकत्वमिति भावः । 'श्रथ क्नथ क्रथ क्लथ' इति ॥ चत्वारोऽपि द्वितीयान्ताः । आद्यतृतीयौ रेफमध्द्यौ । द्वितीयो नकारमध्द्यः । चतुर्थस्तु लकारमध्द्यः । आद्यस्तु शकारादिः । इतरे