पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१२१
बालमनोरमा ।


पुनरिह पाठो मित्त्वार्थ आत्मनेपदार्थश्च । ञि त्वरा ७७५ सम्भ्रमे । 'घटादयः षितः' (ग सू १८६) । षित्त्वादङ् कृत्सु वक्ष्यते ।

अथ फणान्ताः परस्मैपदिनः । ज्वर ७७६ रोगे । ज्वरति । जज्वार । गड ७७७ सेचने । गडति । जगाड । हेड ७७८ वेष्टने । 'हेडृ अनादरे' इत्यात्मनेपदिषु गतः । स एवोत्सृष्टानुबन्धोऽनूद्यते अर्थविशेषे मित्त्वार्थम् । परस्मैपदिभ्यो ज्वरादिभ्यः प्रागेवानुवादे कर्तव्ये तन्मद्ध्येऽनुवादसामर्थ्यात्परस्मैपदम् । हेडति । जिहेड । हिडयति । अहिडि-अहीडि । अनादरे तु हेडयति । वट ७७९ भट ७८० परिभाषणे । 'वट वेष्टने' 'भट भृतौ' इति पठितयोः परिभाषणे मित्त्वार्थोऽनुवादः । णट ७८१ नृत्तौ । इत्थमेव पूर्वमपि पठितम् । तत्रायं विवेकः । पूर्व पठितस्य नाट्यमर्थः । यत्कारिषु नटव्यपदेशः ।


पौनरुक्त्य परिहरति । कदि क्रदि क्लदीनामित्यादिना । ञि त्वरेति ॥ ञिरित् । 'ञीत क्त' इति प्रयोजनम् । आदित्त्वन्तु 'आदितश्च' इति निष्ठायामिण्निषेधार्थम् । वस्तुतस्तु आदित्त्व व्यर्थम् । ह्रस्वेऽप्यात्मनेपदसिद्धेः 'रुष्यमत्वरसघुषास्वनाम्' इति निष्ठायामिड्विकल्पसिद्धेश्च । घटादयः षित इति ॥ त्वरत्यन्ता इति शेषः । गणसूत्रमिदम् । तत्प्रयोजनमाह । षित्त्वादिति । वक्ष्यते इति ॥ 'षिद्भिदादिभ्योऽड्' इत्यनेनेति शेष । घटादिषु त्रयोदशानुदात्तेतो गताः । 'द्युत दीप्तौ' इत्यतः प्राक् घटादिसमाप्तिरिति वक्ष्यते । अथ फणान्ता इति ॥ फण गतावित्येतत्पर्यन्ता इत्यर्थ । ज्वर रोगे इति ॥ णौ ज्वरयति । चिणि तु अज्वरि अज्वारि । णमुलि तु ज्वर ज्वरम्, ज्वार ज्वारम् । एवमग्रेऽपि ज्ञेयम् । हेड वेष्टने इति ॥ डकारादकार उच्चारणार्थः । ततश्च 'नाग्लोपिशास्वृदिताम्' इति निषेधो न भवति । स एवेति ॥ हेडृधातुरेव ॠकारानुबन्धमुत्सृज्य वेष्टनरूपे अर्थविशेषे मित्त्वार्थमनूद्यते इत्यर्थः । धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्प स्यादिति भावः । नन्वात्मनेपदिन एवात्रानुवादे परस्मैपदन्न स्यादित्यत आह । परस्मैपदिभ्य इति ॥ यदित्वात्मनेपदमिष्ट तर्हि घटादिषु त्वरत्यन्तेष्वेवानुदात्तेत्सु पठ्येतेति भावः । हेडतीति ॥ वेष्टते इत्यर्थ । हिडयतीति ॥ वेष्टयतीत्यर्थः । 'हेतुमति' इति णिचि 'मिता ह्रस्वः' इति ह्रस्व इति भावः । अहिडि अहीडीति ॥ 'चिण्णमुलोः' इति दीर्घविकल्प । अनादरे तु हेडयतीति ॥ वेष्टनरूपार्थ एव मित्त्वान्न ह्रस्व इति भावः । 'वट परिभाषणे' इति नापूर्वो धातुरित्याह । वट वेष्टने इत्यादि । अनुवाद इति ॥ धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति भाव । 'णट नृत्तौ' इत्यस्य पौनरुक्त्यमाक्षिपति । इत्थमेव पूर्वमपि पठितमिति ॥ टवर्गान्तेष्विति शेषः । तथा च उभयोरप्यर्थैक्येन अर्थविशेषे मित्त्वार्थमिहानूद्यते इति परिहारस्य सम्भवान्नपौनरुक्त्यमिति भावः । परिहर्तुमुपक्षिपति । तत्रायं विवेक इति ॥ तत्र तयोः धात्वोः अयं वक्ष्यमाणः विवेकः अर्थभेदः प्रत्येतव्य इत्यर्थः । पूर्वम्पठितस्येति ॥