पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२०
[भ्वादि
सिध्दान्तकौमुदीसहिता

२३५३ । व्यथो लिटि । (७-३-६८)

व्यथोऽभ्यासस्य सम्प्रसारणं स्याल्लिटि । हलादिशेषापवादः । थस्य हलादिशेषेण निवृत्तिः । विव्यथे । प्रथ ७६५ प्रख्याने । पप्रथे । प्रस ७६६ विस्तारे । पप्रसे । मृद ७६७ मर्दने । स्खद ७३८ स्खदने । स्खदनं विद्रावणम् । क्षजि ७३९ गतिदानयोः । मित्त्वसामर्थ्यादनुपधात्वेऽपि 'चिण्णमुलो:-' (सू २७६२) इति दीर्घविकल्पः । अक्षञ्जि-अक्षाञ्जि । क्षञ्जं क्षञ्जम् । क्षाञ्जं क्षाञ्जम् । दक्ष ७७० गतिहिसनयोः । योऽयं वृद्धिशैघ्र्ययोरनुदात्तेत्सु पठितस्तस्येहार्थविशेषे मित्त्वार्थोऽनुवादः । क्रप ७७१ कृपायां गतौ च । कदि ७७२ क्रदि ७७३ क्लदि ७७४ वैक्लव्ये । 'वैकल्ये' इत्येके । 'त्रयोऽप्यनिदितः' इति नन्दी । 'इदितः' इति स्वामी । 'कदि क्रदी' इदितौ 'क्रद क्लद' इति चानिदिताविति मैत्रेयः । 'कदि क्रदि क्लदीनामाह्वानरोदनयोः' परस्मैपदिपूक्तानां


किन्तु इहैव घटादिगणे 'घट चेष्टायाम्' इत्यपूर्वोऽयन्धातुः तस्य चार्थान्तरवृत्तावपि मित्त्वमस्त्येवेति विघटयतीत्यादौ मित्त्वाध्द्रस्वो निर्बाधः । व्यथधातुर्द्वितीयान्तः । व्यथो लिटि ॥ 'अत्र लोपः' इत्यतः अभ्यासस्येति 'द्युतिस्वाप्योः' इत्यतः सम्प्रसारणमिति चानुवर्तते । तदाह व्यथोऽभ्यासस्येत्यादिना । हलादिशेषापवाद इति ॥ व्यथ व्यथ ए इति स्थिते हलादिशेषलभ्य यकारस्य लोपम्बाधित्वा सम्प्रसारणमित्यर्थः । तथाच यकारस्य इकारे पूर्वरूपे विव्यथे इति रूपम् । वकारस्य तु न सम्प्रसारणम् । 'न सम्प्रसारणे सम्प्रसारणम्' इति निषेधात् । ननु सम्प्रसारणेन हलादिशेषबाधे थकारस्यापि निवृत्तिर्नस्यादित्यत आह । थस्येति ॥ यकारलोपस्य बाधं विना सम्प्रसारणस्य प्रवृत्त्यनुपपत्तेस्तेन तद्बाधेऽपि थकारलोपस्य बाधे प्रमाणाभावादिति भावः । मृद मर्दने इति ॥ ॠदुपधोऽयम् । मर्दते । ममृदे । क्षजिधातुरिदित् । क्षञ्जते । चक्षञ्जे । ननु घटादिगणे अस्य पाठो व्यर्थः । क्षञ्जयतीत्यत्र णौ नुमि कृते अकारस्यानुपधात्वे उपधादीर्घस्याप्रसक्त्या 'मिता ह्रस्वः' इत्यस्याप्रवृत्तावपि विशेषाभावात् अनुपधात्वेन 'मितां ह्रस्वः' इत्यस्य प्रसक्त्यभावाच्च । अतएव अक्षञ्जि क्षञ्जक्षञ्जमित्यत्रापि 'चिण्णमुलोः' इति दीर्घविकल्पस्यापि न प्रसक्तिरित्यत आह । मित्त्वसामर्थ्यादिति । दक्ष गतीति ॥ ननु 'दक्ष वृद्धौशीघ्रार्थे च' इत्यनुदात्तेत्सु पाठादेव सिद्धे किमर्थमिह पाठ । अर्थनिर्देशस्योपलक्षणत्वादेव गति हिंसार्थकत्वस्यापि सम्भवादित्यत आह । वृद्धिशैघ्र्ययोरिति ॥ मित्त्वसामर्थ्यादनुपधात्वेऽपि चिण्णमुलोर्दीर्घविकल्पः । अदक्षि अदाक्षि । दक्षन्दक्षम् । दाक्षन्दाक्षम् । क्रप कृपायाङ्गताविति ॥ अदुपधोऽयम् । कृपायां गतौ वेत्यर्थः । कदि क्रदि क्लदेति नन्दिमते । क्षीरस्वामिमते च त्रय एव धातवः । मैत्रेयमते चत्वार इति बोध्द्यम् । तत्र इदितान्त्रयाणां