पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
११९
बालमनोरमा ।

इति च वक्ष्यते । घटयति । विघटयति । कथं तर्हि 'कमलवनोद्घाटनं कुर्वते ये' 'प्रविघाटयिता समुत्पतन्हरिदश्वः कमलाकरानिव' इत्यादि । शृणु । 'घट सङ्घाते' इति चौरादिकस्येदम् । न च तस्यैवार्थविशेषे मित्त्वार्थमनुवादोऽयमिति वाच्यम् 'नान्ये मितोऽहेतौ' इति निषेधात् । अहेतौ स्वार्थे णिचि ज्ञपादिपञ्चकव्यतिरिक्ताश्चुरादयो मितो नेत्यर्थः । व्यथ ७६४ भयसञ्चलनयोः । व्यथते ।


त्युक्तम् । ततश्चार्थान्तरवृत्तेरपि घटधातोर्घटादिकार्यम्भवत्येव । तदाह । घटयति । विघटयतीति ॥ सश्लेषयति विश्लेषयतीत्यर्थः । णौ ह्रस्वोदाहरणमिदम् । अघटि अघाटीति, चिण्युदाहरणम् । घाट घाटम् । घटं घटमिति ण्यन्ताण्णमुलि दीर्घविकल्पस्योदाहरणम् । 'नित्यवीप्सयोः' इति द्विर्वचनम् । ननु यद्यर्थान्तरवृत्तेरपि घट धातोर्मित्त्वन्तदा उद्घाटन प्रविघाटयितेत्यत्र विकसनार्थकस्यापि घट धातोर्णौ मित्त्वाध्द्रस्व स्यादित्याक्षिपति । कथन्तर्हीति । शृण्विति ॥ समाधानमिति शेषः । चौरादिकस्येति ॥ चुरादौ 'घट सङ्घाते' इति पठितम् । तदिदङ्घाटादिकात् घटधातोर्धात्वन्तरमेव । तस्य णौ मित्त्वाभावात् । ह्रस्वाभावे उद्घाटन प्रविघाटयितेति निर्बाधमेव । अर्थनिर्देशस्योपलक्षणतया सङ्घातादन्यत्र विकसनेऽपि चौरादिकस्य वृत्तिसम्भवादिति भाव । ननु घटादिगणादन्यत्र अर्थान्तरे पठितानान्धातूनामिह घटादिगणे पाठ. घटादिगणनिर्दिष्ट एवार्थे मित्त्वार्थोऽनुवाद एव नतु धातुभेदः । अन्यथा घटादिकत्व गणान्तरस्थत्व चादाय मित्त्वतदभावयोर्विकल्पापत्ते । ये तु धातवो घटादिगण एव पूर्व पठिताः नतु गणान्तरे तेषान्त्वर्थान्तरवृत्तावपि मित्त्वमिति धातुवृत्त्यादिग्रन्थेषु सिद्धान्तः । घटधातुस्तु घट सङ्घाते इति चुरादौ पठितः । अतस्तस्यैवात्र गणे चेष्टायामर्थे मित्त्वार्थोऽनुवाद इति लब्धम् । एवञ्च विघटयति इत्यादावर्थान्तरवृत्तौ ण्यन्तस्य मित्त्वमित्याशङ्क्य निराकरोति । नचेति ॥ तस्यैव चौरादिकस्यैव घटधातोः चेष्टात्मके अर्थविशेषे वृत्तौ मित्त्वार्थोऽनुवादः स्यादिति न वाच्यमित्यर्थः । कुत इत्यत आह । नान्ये मितोऽहेताविति ॥ चुराद्यन्तर्गणसूत्रमिदम् । तत्र हि 'ज्ञप मिच्च' 'यम च परिवेषणे' 'चह परिकल्कने' 'रह त्यागे' 'बल प्राणने' । 'चिञ् चयने' इति पञ्च धातून् पठित्वा 'नाऽन्ये मितोऽहेतौ' इति पठितम् । तत्र चह परिकल्कने इत्यस्य स्थाने चपेति केचित् पठन्ति । तथाच पञ्चत्वस्य न विरोध । एषु पञ्चस्वपि मिदित्यनुवर्तते । अहेताविति च्छेदः । कस्मादन्ये इत्यपेक्षाया सन्निहितत्वात् ज्ञपादिपञ्चभ्य इति लभ्यते । हेतुशब्देन 'हेतुमति च' इति सूत्रविहितो णिच् लभ्यते । तद्भिन्नो णिच् स्वार्थिक अहेतुः तदाह । अहेतौ स्वार्थे णिचीति ॥ ज्ञपः आदिर्येषामिति अतद्गुणसविज्ञानो बहुव्रीहिः । ज्ञपधातोस्तदुत्तरेभ्यश्च पञ्चभ्य इत्येव षड्भ्योऽन्ये ये चुरादयः ते मितो नेति फलितम् । एवञ्च चुरादौ ज्ञपादिपञ्चकव्यतिरिक्तानां मित्त्वाभावात् 'घट चेष्टायाम्' इति निर्देशश्चौरादिकस्य 'घट सङ्घाते' इत्यस्य चेष्टाया वृत्तौ मित्त्वार्थोऽनुवाद इति न युज्यते ।