पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११८
[भ्वादि
सिध्दान्तकौमुदीसहिता

लुटि स्यसनोश्च क्लृपेः परस्मैपदं वा स्यात् ।

२३५२ । तासि च क्लृपः । (७-२-३०)

क्लृपेः परस्य तासेः सकारादेरार्धधातुकस्य चेण्न स्यात्तङानयोरभावे । कल्प्तासि । कल्प्तास्थ । कल्पितासे । कल्प्तासे । कल्प्स्यति । कल्पिष्यते । कल्प्स्यते । कल्पिषीष्ट-क्लृप्सीष्ट । अक्लृपत् । अकल्पिष्ट-अक्लृप्त । अकल्प्स्यत् । अकल्पिष्यत-अकल्प्स्यत । वृत् । वृत्तः सम्पूर्णो द्युतादिर्वृतादिश्चेत्यर्थः ।

अथ त्वरत्यन्तास्त्रयोदशानुदात्तेतः षितश्च । घट ७६३ चेष्टायाम् । घटते । जघटे । 'घटादयो मितः' इति वक्ष्यमाणेन मित्संज्ञा । तत्फलन्तु णौ 'मितां ह्रस्वः' (सू १५६८) इति 'चिण्णमुलोर्दीर्घोऽन्यतरस्याम्' (सू २७६२)


इत्यतः परस्मैपदमिति । 'वा क्यष' इत्यतो वेति च । तदाह । लुटि स्यसनोरित्यादिना ॥ तासि च ॥ चकारात्सकाराद्यार्धधातुक गृह्यते । 'सेऽसिचि कृत' इत्यत से इति 'आर्धधातुकस्य' इत्यतः आर्धधातुकस्येडिति चानुवर्त्तते । 'न वृभ्द्यश्चतुर्भ्यः' इत्यतो नेति च । गमेरिडित्यतः परस्मैपदमिति च । तदाह । क्लृपेः परस्येत्यादिना । कल्प्तासीति ॥ 'लुटि च क्लृप' इति परस्मैपदपक्षे ऊदिल्लक्षणमिड्विकल्पम्बाधित्वा 'तासि च क्लृप' इति इण्निषेधे गुणे रपरत्वे लत्वे रूपम् । परस्मैपदाभावपक्षे तु ऊदिल्लक्षणमिड्विकल्प मत्वा आह । कल्पितासे, कल्प्तासे इति ॥ लृटि तु 'लुटि च क्लृपः' इति परस्मैपदपक्षे ऊदिल्लक्षणमिड्विकल्पम्बाधित्वा 'तासि च क्लृपः' इति इण्निषेध मत्वा आह । कल्प्स्यतीति ॥ परस्मैपदाभावे तु ऊदित्त्वादिड्विकल्प मत्वा आह । कल्पिष्यते इति ॥ कल्पताम् । अकल्पत । कल्पेत । आशीर्लिडि ऊदिल्लक्षणमिड्विकल्प मत्वा आह । कल्पिषीष्टेति । क्लृप्सीष्टेति च ॥ इडभावे 'लिड्सिचावात्मनेपदेषु' इति कित्त्वान्न गुणः । अक्लृपदिति ॥ 'द्युभ्द्यो लुडि' इति परस्मैपदपक्षे द्युतादिलक्षणे अडि सति डित्वान्न गुणः । अडभावे तु ऊदिल्लक्षणमिड्विकल्प मत्वा आह । अकल्पिष्टेति, अक्लृप्तेति च । अकल्प्स्यदिति ॥ लृडि स्ये 'लुटि च क्लृपः' इति परस्मैपदपक्षे ऊदिल्लक्षणमिड्विकल्प बाधित्वा 'तासि च क्लृपः' इति इण्निषेध इति भावः । परस्मैपदाभावपक्षे तु ऊदिल्लक्षणमिड्विकल्प मत्वा आह । अकल्पिष्यत, अकल्प्स्यतेति । वृदिति ॥ वृतेः समाप्त्यर्थकात् कर्तरि क्विप् । तदाह । वृत्तः इति ॥ 'गत्यर्थाकर्मक' इति कर्तरि क्तः । वृत्तशब्दस्य विवरण सम्पूर्णः इति ॥ द्युतादयः कृपूपर्यन्ता अनुदात्तेतो गताः । अथ त्वरत्यन्ताः इति ॥ 'ञि त्वरा सम्भ्रमे' इत्यन्ता इत्यर्थः । षितश्चेति ॥ षित्संज्ञका इत्यर्थः । षित्कार्यभाज इति वा । 'ञि त्वरा सम्भ्रमे' इत्युक्त्वा 'घटादयः षित' इति वक्ष्यमाणत्वादिति भावः । षित्फलन्तु स्त्रियामित्यधिकारे 'षिद्भिदादिभ्यः' इत्यड् । घटा व्यथा, इत्यादि रूपम् । घटते इति ॥ चेष्टते इत्यर्थः । तत्फलन्त्विति ॥ मित्त्वफलन्तु 'मितां ह्रस्वः' इति णौ ह्रस्वः । 'चिण्णमुलोर्दीर्घः' इति दीर्घश्च वक्ष्यते । धातुपाठे अर्थनिर्देशः उपलक्षणमि-