पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
११७
बालमनोरमा ।

इति पर्युदासात् 'मत्स्योदके अनुष्यन्देते' इत्यत्रापि पक्षे षत्वं भवत्येव । 'प्राणिषु न' इत्युक्तौ तु न स्यात् । कृपू ७६२ सामर्थ्ये ।

२३५० । कृपो रो लः । (८-२-१८)

कृप उः रः लः इति छेदः । 'कृप इति लुप्तषष्ठीकम् । तच्चावर्तते । कृपो यो रेफस्तस्य लः स्यात् । कृपेर्ॠकारस्यावयवो यो रो रेफसदृशस्तस्य च लकारसदृशः स्यात् । कल्पते । चक्लृपे । चक्लृपिषे-चक्लृप्से । इत्यादि स्यन्दिवत् ।

२३५१ । लुटि च क्लृपः । (१-३-८३)


आह । अप्राणिष्विति । पर्युदासादिति ॥ प्राणिकर्तृकस्य नेति न प्रतिषेध येनात्र प्राणिकर्तृकत्वस्यापि सत्त्वात् षत्व न स्यात् । किन्तु प्राणिभिन्नकर्तृकस्येति पर्युदास आश्रीयते । एवञ्च प्राण्यप्राणिकर्तृकस्यापि अप्राणिकर्तृकत्वानपायादिह षत्व निर्बाधमिति भाव । कृपू सामर्थ्ये इति ॥ सामर्थ्यङ्कार्यक्षमीभवनम् । ऊदित्त्वाद्वेट्ऽकोयम् । ॠदुपध । तडि प्रथमपुरुषैकवचनस्य टेरेत्वे शपि लघूपधगुणे रपरत्वे कर्पते इति स्थिते । कृपो रो लः ॥ कृप इति लुप्तविभक्तिकम् । षष्ठ्येकवचने उ इति ॠकारस्य रूपम् । अवयवषष्ठी । कृप उरिति स्थिते आद्गुणे कृपोरिति भवति । र इति षष्ठ्यन्तम् । कृपोर् र इति स्थिते 'रो रि' इति रेफलोपे कृपोर इति भवति । ल इति प्रथमान्तम् । अकार उच्चारणार्थ । तदाह । कृप उः रः लः इति छेदः इति ॥ एतच्च ॠलृक्सूत्रभाष्ये स्थितम् । ननु कृपेत्यत्र का विभक्तिर्लुप्तेत्यत आह । कृप इति लुप्तपष्ठीकमिति ॥ पकारादकार उच्चारणार्थ । कृप्धातोरिति लभ्यते । तच्चावर्तते इति ॥ कृपः रः लः इति पदत्रयमावर्तते इत्यर्थः । तथाच । वाक्यद्वय सम्पद्यते । कृपः रः लः इत्येक वाक्यम् । तदाह । कृपो यो रेफस्तस्य लः स्यादिति ॥ तथाच कल्पते इति भवति । कृप उ र ल इति द्वितीय वाक्यम् । तत्र कृपेत्यवयवषष्ठ्यन्तम् । उरित्यत्रान्वेति । उरित्यवयवषष्ठ्यन्त रेफे अन्वेति । तथाच कृप्धातोरवयव य ॠकारः । तस्य यो रेफः तस्य लकारस्स्यादिति लभ्यते । तत्र ॠकारावयवत्व रेफस्य न सम्भवतीति रेफशब्दो रेफसदृशे ॠकारांशे लाक्षणिकः । ल इत्यपि लकारसदृशे लृकारांशे लाक्षणिकः । तदाह । कृपेर्ॠकारस्यावयव इत्यादिना ॥ एवञ्च लिटि चकृप् ए इति स्थिते कित्त्वाद्गुणाभावे ॠकारैकदेशस्य रेफसदृशस्य लकारसदृशे सति चक्लृपे इति रूपम् । कृपः रः लः इति छेदमभ्युपगम्य कृपधातोः रेफस्य लकार इति व्याख्याने तु चक्लृपे इति न सिध्द्येत् । तदर्थमावृत्तिराश्रितेत्यभिप्रेत्याह । कल्पते । चक्लृपे इति ॥ ऊदित्त्वादिड्विकल्प मत्वा आह । चक्लृपिषे, चक्लृप्से इति । स्यन्दिवदिति ॥ चक्लृपाथे चक्लृपिध्वे चक्लृप्ध्वे । चक्लृपे चक्लृपिवहे चक्लृप्वहे चक्लृपिमहे चक्लृप्महे । लुटि च क्लृपः ॥ चकारात् 'वृभ्द्यः स्यसनो' इत्यतः स्यसनोरित्यनुकृष्यते । 'शेषात्कर्तरि'