पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११६
[भ्वादि
सिध्दान्तकौमुदीसहिता

'वृद्भ्यः स्यसनोः' (मू २३४७) इति परस्मैपदे कृते ऊदिल्लक्ष्णमन्तरङ्गमपि विकल्पं बाधित्वा चतुर्ग्रहणसामर्थ्यात् 'न वृद्भ्यः-' (सू २३४८) इति निषेधः । स्यन्त्स्यति-स्यन्दिष्यते-स्यन्त्स्यते । स्यन्दिषीष्ट-स्यन्त्सीष्ट । 'द्युद्भ्यो लुङि' (सू २३४५) इति परस्मैपदपक्षे अङ् । नलोपः । अस्यदत् । अस्यन्दिष्ट-अस्यन्त । अस्यन्त्साताम् । अस्यन्त्सत । अस्यन्त्स्यत् । अस्यन्दिष्यत-अस्यन्त्स्यत ।

२३४९ । अनुविपर्यभिनिम्यः स्यन्दतेरप्राणिषु । (८-३-७२)

एभ्यः परस्याप्राणिकर्तृकस्य स्यन्दतेः सस्य षो वा स्यात् । अनुष्यन्दते-अनुस्यन्दते वा जलम् । 'अप्राणिषु' किम् । अनुस्यन्दते हस्ती । 'अप्राणिषु'


इण्निषेधे स्यन्त्स्यतीत्येव रूपमिष्यते । नतु स्यन्दिष्यत इति । तदयुक्तम्--अन्तरङ्गतया ऊदिल्लक्षणस्यैव इड्विकल्पस्य उचितत्वात् सकारादिविशेषापेक्षतया तडानाभावनिमित्तापेक्षतया च 'न वृद्भ्यः' इति निषेधस्य बहिरङ्गत्वादित्याशङ्क्य निराकरोति । वृद्भ्य इति ॥ 'वृद्भ्यस्स्यसनो:' इति परस्मैपदे कृते अन्तरङ्गमपि विकल्पं बाधित्वा न वृद्भ्य इति निषेध इत्यन्वय कुत इत्यत आह । चतुर्ग्रहणसामर्थ्यादिति ॥ यदिह्यत्र ऊदिल्लक्षण इड्विकल्प एव स्यात् नतु 'न वृभ्द्यश्चतुर्भ्यः' इति निषेधः तर्हि चतुर्भ्य. इति व्यर्थ स्यात् । नच कृपूव्यावृत्तिस्तत्फलमिति शङ्क्यम् । 'तासि च क्लृप' इति चकारेण सकाराद्यार्धधातुकेऽपि नित्यमिण्निषेधप्रवृत्तेर्वक्ष्यमाणत्वात् । भाष्ये तु 'निषेधाश्च बलीयास.' इति न्यायेन अन्तरङ्गस्यापि ऊदिल्लक्षणेड्विकल्पस्य 'न वृभ्द्यः' इति निषेधेन बाधसिद्धेश्चतुर्ग्रहण प्रत्याख्यातम् । तथा च लृटि परस्मैपदपक्षे ऊदिल्लक्षणमिड्विकल्पं बाधित्वा 'न वृभ्द्यः' इति नित्यमिण्निषेधे स्यन्त्स्यतीत्येकमेव रूपमिति स्थितम् । आत्मनेपदपक्षे तु ऊदित्त्वादिड्विकल्प मत्वा आह । स्यन्दिष्यते, स्यन्त्स्यते इति ॥ इडभावे दस्य चर्त्वम् । आशीर्लिडि सीयुटि ऊदित्त्वादिड्विकल्पं मत्वा आह । स्यन्दिषीष्ट, स्यन्त्सीष्टेति ॥ 'न वृभ्द्यः' इति निषेधस्तु न । तडानयोरभाव एव तत्प्रवृत्तेरिति भावः । लुडि विशेषमाह । द्युभ्द्यो लुङीत्यादिना । अङिति ॥ द्युतादिलक्षण इति शेषः । नलोप इति ॥ अनिदितामित्यनेनेति शेषः । आत्मनपदपक्षे तु अङभावादूदिल्लक्षणमिड्विकल्पं मत्वा आह । अस्यन्दिष्ट, अस्यन्तेति ॥ तत्र इडभावपक्षे अस्यन्द् स् त इतिस्थिते 'झलो झलि’ इति सलोपे दस्य चर्त्वम् । नचापित्त्वेन डित्त्वात् 'अनिदिताम्' इति नलोपः शङ्क्यः । सिज्लोपस्यासिद्धत्वेनानुपधात्वादिति भाव । अस्यन्त्साताम् । अस्यन्त्सतेति ॥ अस्यन्त्थाः । अस्यन्त्साथाम् । अस्यन्ध्द्वम् । अस्यन्त्सि । अस्यन्स्वहि । अस्यन्त्स्महि । अस्यन्त्स्यत् । अस्यन्त्स्यत । अस्यन्दिष्यत । अनुविपर्यभिनि । एभ्य इति ॥ अनु परि अभि नि वि इत्येतेभ्य इत्यर्थः । सस्येति ॥ 'सहेः साढस्सः' इत्यतः स इति षष्ठ्यन्तस्यानुवृत्तेरिति भावः । षो वा स्यादिति ॥ 'अपदान्तस्य मूर्धन्यः' इत्यधिकारादिति भावः । ननु मत्स्योदके अनुष्यन्देते इत्यत्र कथं षत्व प्राणिकर्तृकत्वस्यापि सत्त्वादित्यत