पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
११५
बालमनोरमा ।

विश्वासे । अस्रभत्-अस्रम्भिष्ट । दन्त्यादिरयम् । तालव्यादिस्तु प्रमादे गतः । वृतु ७५८ वर्तने । वर्तते । ववृते ।

२३४७ । वृभ्द्यः स्यसनोः । (१-३-९२)

वृतादिभ्यः परस्मैपदं वा स्यात्स्ये सनि च ।

२३४८ । न वृद्भ्यश्चतुर्भ्यः । (७-१-५९)

एभ्यः सकारादेरार्धधातुकस्येण्न स्यात्तङानयोरभावे । वर्त्स्यति । वर्तिष्यते । अवृतत् । अवर्तिष्ट । अवर्त्स्यत् । अवर्तिष्यत । वृधु ७५९ वृद्धौ । शृधु ७६० शब्दकुत्सायाम् । इमौ वृतुवत् । स्यन्दू ७६१ प्रस्रवणे । स्यन्दते । सस्यन्दे । सस्यन्दिषे-सस्यन्त्से । सस्यन्दिध्वे-सस्यन्ध्द्वे । स्यन्दिता-स्यन्ता ।


रूपमिति भ्रमितव्यम् । तत्र परस्मैपदासम्भवात् । स्रम्भुधातुरकारमध्द्य । वृतु वर्तने इति ॥ उदित् ॠदुपधः सेट्कः । वर्तते इति ॥ शपि गुणे रपरत्वम् । ववृते इति ॥ असयोगादिति कित्त्वाद्गुणाभावे द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे रूपम् । लुटि वर्तिता । वृद्भ्यः ॥ बहुवचनाद्वृतादिभ्य इति गम्यते । शेषात्कर्तरीत्यतः परस्मैपदमित्यनुवर्तते । तदाह । वृतादिभ्य इति । न वृद्भ्यः ॥ सेऽसिचीति सूत्रात् से इति आर्द्धधातुकस्येडिति चानुवर्तते । तदाह । एभ्यः सकारादेरिति । तङानयोरभावे इति ॥ गमेरिडित्यतः परस्मैपदेष्वित्यनुवृत्तम् । तेन च तडानयोरभावो लक्ष्यते । व्याख्यानादिति भावः । तेन जिगमिषिता इत्यत्र गमेस्तृचि इट् सिध्द्यति । वृतेस्सन्नन्तात् हेर्लुकि विवृत्सेत्यत्र इण्निषेधश्च सिध्द्यति । वर्त्स्यतीति ॥ लृटि स्यः । 'वृभ्द्यः स्यसनो' इति परस्मैपदविकल्प । 'न वृभ्द्यः' इति इण्निषेधः । गुणः रपरत्व चर्त्वम् । परस्मैपदाभावेत्वाह । वर्तिष्यते इति ॥ तडानयोरभावे इत्युक्तेः न वृभ्द्य इति इण्निषेधो न । अवर्तिष्टेति ॥ परस्मैपदस्य अङश्चाभावे रूपम् । अवर्त्स्यदिति ॥ लृडि स्य । 'वृभ्द्यः स्यसनोः' इति परस्मैपदम् । 'न वृभ्द्य' इति इण्निषेधः । गुणः । रपरत्वमिति भावः । अवर्तिष्यतेति ॥ परस्मैपदस्याभावे न वृभ्द्य इति इण्निषेधोऽपि नेति भावः । वृधु शृधु इति द्वौ ॠदुपधौ । तत्रापि 'द्युभ्द्यो लुडि' इति परस्मैपदपक्षे द्युतादिलक्षणः अड् । लृट्लृडो 'वृध्द्यः स्यसनो' इति परस्मैपदपक्षे 'न वृध्द्य' इति इण्निषेधश्च । तदाह । इमौ वृतुवदिति ॥ वर्त्स्यति । वर्धिष्यते । अवृधत् । अवर्धिष्ट । अवर्त्स्यत् । अवर्धिष्यत । शर्त्स्यति । शर्धिष्यते । अशृधत् । अशर्धिष्ट । अशर्त्स्यत् । अशर्धिष्यत । स्यन्दूधातु ऊदित् नकारोपध कृतानुस्वारपरसवर्णनिर्देश । सस्यन्दिषे, सस्यन्त्से इति ॥ इडभावे दस्य चर्त्वेन तः । सस्यन्दिध्द्वे, सस्यन्ध्द्वे इति ॥ इडभावे धकारात् प्राक् दकारः । खर्परकत्वाभावान्नचर्त्वम् । स्यन्दिता, स्यन्तेति ॥ इडभावे दस्य चर्त्वम् । ननु लृटि स्ये सति 'वृभ्द्यः स्यसनो.' इति परस्मैपदपक्षे परत्वादूदिल्लक्षणमिड्विकल्पम्बाधित्वा 'न वृभ्द्यश्चतुर्भ्य' इति