पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
[भ्वादि
सिध्दान्तकौमुदीसहिता

मिदेरिको गुणः स्यादित्संज्ञकशकारादौ । एशः आदिशित्त्वाभावान्नानेन गुणः । मिमिदे । अमिदत्-अमेदिष्ट । 'ञि ष्विदा ७४४ स्नेहनमोचनयोः' । 'मोहनयोः' इत्येके । स्वेदते । सिष्विदे । अस्विदत्-अस्वेदिष्ट । ञि क्षिवदा च' । इत्येके । अक्ष्विदत्-अक्ष्वेदिष्ट | 'रुच ७४५ दीप्तावभिप्रीतौ च' । रोचते सूर्यः । 'हरये रोचते भक्तिः' । अरुचत्-अरोचिष्ट । घुट ७४६ परिवर्तने । घोटते । जुघुटे । अघुटत्-अघोटिष्ट । रुट ७४७ लुट ७४८ लुठ ७४९ प्रतिघाते । अरुटत्-अरोटिष्ट । शुभ ७५० दीप्तौ । क्षुभ ७५१ सञ्चलने । णभ ७५२ तुभ ७५३ हिंसायाम् । आद्योऽभावे च । 'नभन्तामन्यके समे' । 'मा भूवन्नन्यके सर्वे' इति निरुक्तम् । अनभत्-अनभिष्ट । अतुभत्-अतोभिष्ट । इमौ दिवादी क्र्यादी च । स्रंसु ७५४ ध्वंसु ७५५ भ्रंसु ७५६ अवस्रंसने । 'ध्वंसु गतौ च' । अङि न लोपः । अस्रसत्-असंसिष्ट । 'नास्रसत्करिणां ग्रैवम्' इति रघुवंशे । 'भ्रंशु' इत्यपि केचित्पेठुः । अत्र तृतीय एव तालव्यान्त इत्यन्ये । 'भ्रशु भ्रंशु अधःपतने' इति दिवादौ । स्रम्भु ६५७


शीत्यनुवर्तते। शचासाविच्चेति कर्मधारयः । तेन च अधिकृताङ्गाक्षिप्तः प्रत्ययो विशेष्यते । तदादिविधि:। इत्संज्ञकशकारादौ प्रत्यये परे इति लभ्यते । तदाह । मिदेरित्यादिना ॥ दैवादिकमिदे श्यनि मेद्यते इत्याद्युदाहरणम् । श् इत् यस्येति बहुव्रीहिमाश्रित्य शिति प्रत्यये परे मिदेरिकोगुण इत्येव कुतो न व्याख्यायत इत्याशङ्क्य मिमिदे इत्यत्र गुणाभावार्थमित्संज्ञकशकारादाविति व्याख्येयमित्यभिप्रेत्याह । एशः आदिशित्त्वाभावादिति । ञि ष्विदेति ॥ षोपदेशोऽयम् । अनिट्सु स्विद्येति श्यन्विकरणस्यैव ग्रहणादयं सेट् । रुच दीप्तावभिप्रीतौ चेति ॥ अभिप्रीतिः प्रीतिविषयीभवनम् । दीप्तौ उदाहरति । रोचते सूर्यः इति ॥ प्रकाशत इत्यर्थः । अभिप्रीतौ उदाहरति । हरये रोचते भक्तिरिति ॥ भक्ति. हर्याश्रितप्रीतिविषयो भवतीत्यर्थः । 'रुच्यर्थानाम्' इति सम्प्रदानत्वाच्चतुर्थी । क्षुभ सञ्चलने इति ॥ क्षोभते क्षुभ्यतीति दिवादौ । क्षुभ्नातीति क्र्यादौ । णभधातुः णोपदेशः । नभते । आद्योऽभावे चेति ॥ चात्सञ्चलनेऽपि । तत्र अभावार्थकस्य प्रयोगन्दर्शयति । नभन्तामन्यके समे इति ॥ मन्त्रोऽयम् । नन्वत्र मन्त्रे णभेर्हिंसार्थकत्वमेव कुतो न स्यादित्यत आह । मा भूवन्नन्यके सर्वे इति ॥ नभन्तामित्यस्य विवरण मा भूवन्निति । न भवन्तीत्यर्थः । समे इत्यस्य विवरणं सर्वे इति । निरुक्तमिति ॥ वेदव्याख्यानात्मको यास्कप्रणीतो ग्रन्थविशेषो निरुक्तम् । स्रंसुध्वंसुभ्रंसु इति ॥ त्रयो नोपधाः कृतानुस्वारनिर्देशाः । ध्वंसु गतौ चेति ॥ चादवस्रंसनेऽपि । अस्रसदिति ॥ द्युतादित्वात्परस्मैपदे अङि नलोप इति भावः । नास्रसदिति ॥ नास्रसदित्यपपाठ । नचास्रंसदिति लङो