पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
११३
बालमनोरमा ।

अबृहत्-अबर्हीत् । तुहिर् ७३७ दुहिर् ७३८ उहिर् ७३९ अर्दने । तोहति । तुतोह । अतुहत्-अतोहीत् । दोहति । अदुहत् । अदोहीत् । अनिट्कारिकास्वस्य दुहेर्ग्रहणं नेच्छन्ति । ओहति । उवोह । ऊहतुः । ओहिता । मा भवानुहत् । औहीत् । अर्ह ७४० पूजायाम् । आनई ।

अथ कृपूपर्यन्ता अनुदात्तेतः । 'द्युत ७४१ दीप्तौ' । द्योतते ।

२३४४ । द्युतिस्वाप्योः सम्प्रसारणम् । (७-४-६७)

अनयोरभ्यासस्य सम्प्रसारणं स्यात् । दिद्युते । दिद्युताते । द्योतिता ।

२३४५ । द्युद्भ्यो लुङि । (१-३-९१)

द्युतादिभ्यो लुङः परस्मैपदं वा स्यात् । पुषादिसूत्रेण परस्मैपदे अङ् । अद्युतत्-अद्योतिष्ट । श्विता ७४२ वर्णे । श्वेतते । शिश्विते । अश्वितत्-अश्वेतिष्ट । ञि मिदा ७४३ स्नेहने । मेदते ।

२३४६ । मिदेर्गुणः । (७-३-८२)


मिदित् । दृहदृहीति ॥ ॠदुपधा एते । द्वितीयचतुर्थाविदितौ । अबृहत् । अबर्हीदिति ॥ इरित्त्वादड्विकल्प इति भाव । उवोहेति ॥उहिर्धातोर्लिटि द्वित्वे हलादिशेषे पुगन्तलक्षणे गुणे 'अभ्यासस्यासवर्णे' इत्युवड् । मा भवानुहदिति ॥ इरित्त्वादडि रूपम् । औहीदिति ॥ अडभावपक्षे च्लेस्सिचि तस्य इटि 'अस्तिसिचः' इति तकारस्य ईटि 'इट ईटि' इति सिचो लोपे 'आडजादीनाम्’ इति आटि वृद्धिः । मांड्योगे तु मा भवानुहीत् । आनर्हेति ॥ 'अत आदे' इति दीर्घे नुट् । कृपूपर्यन्ता अनुदात्तेत इति ॥ द्युतेत्यारभ्य कृपूपर्यन्ता इत्यर्थ । द्युतिस्वाप्योः । अभ्यासस्येति ॥ 'अत्र लोपोऽभ्यासस्य' इत्यतः तदनुवृत्तेरिति भावः । दिद्युते इति ॥ द्वित्वे 'हलादिः शेषः' इत्यनेन यकारस्य लोपे प्राप्ते तदपवादत्वेन 'द्युतिस्वाप्योः' इति सम्प्रसारणे, 'सम्प्रसारणाच्च' इति उकारस्य पूर्वरूपे रूपम् । द्युद्भ्यो लुङि ॥ बहुवचनात् द्युतादिभ्य इति गम्यते । दिग्योगे पञ्चमी । 'तस्मादित्युत्तरस्य' इति परिभाषया परस्येत्युपतिष्ठते । 'शेषात्कर्तरि' इत्यतः परस्मैपदमित्यनुवर्तते । तदाह-द्युतादिभ्यः इति । परस्मैपदे अङिति ॥ आत्मनेपदपक्षे सिजेव नत्वड् । पुषादिसूत्रे परस्मैपदग्रहणादिति भावः । तदाह । अद्योतिष्टेति । श्विता वर्णे इति ॥ श्वेतवर्णकरणे श्वेतीभवने वेत्यर्थः । अश्वितदिति ॥ द्युतादित्वादड् । अश्वेतिष्टेत्यात्मनेपदपक्षे रूपम् । एवमग्रेऽपि । द्युतादौ लुडि रूपभेदो ज्ञेयः । ञि मिदा स्नेहने इति ॥ ञिरित् 'ञीतः क्तः' इत्येतदर्थः । मिमिदे इत्यत्र लिटः असंयोगादिति कित्त्वेऽपि गुण शङ्कितुमाह । मिदेर्गुणः ॥ मिदेरित्यवयवषष्ठी । गुणश्रुत्या 'इको गुणवृद्धी' इति परिभाषया इक इत्युपतिष्ठते । 'ष्ठिवुक्लमुचमां शिति' इत्यतः