पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सिध्दान्तकौमुदीसहिता

पूर्वार्धे कथितास्तुर्यपञ्चमाद्ध्यायवर्तिनः ।
प्रत्यया अथ कथ्यन्ते तृतीयाद्ध्यायगोचराः ॥ ५ ॥

यकाराकारसघातस्य लोपे इकारस्य यस्येतिचेति लोप. । अर्हति आर्यै. प्रशम्यमानेषु वेदविहितकर्मसु योग्यो भवतीत्यर्हन् । अर्हः प्रशंसायामिति शतृप्रत्ययः । अर्हतो भावः आर्हन्ती अर्हतो नुम् चेति ष्यञि आदिवृध्दौ प्रकृतेर्नुमागमे पिन्वान्डापि हलस्तध्दितस्येति यकारलोपे यस्येतिचेत्यकारलोपः । स्त्रीत्व लोकात् । श्रौतञ्च आर्हन्ती च श्रौत्रार्हन्त्यौ । ताभ्या वित्ताः श्रौत्रार्हन्तीचणाः । तैरिति विप्रहः । तेन वित्तश्चुञ्चुपचणपाविति चणप। वेदाध्द्येतृत्वेन वेदविहितकर्मयोग्यतया च प्रसिध्दैरिति यावत । गुण्यैरिति ॥ नित्यानित्यवस्तुविवेकः, इहामुत्नार्थफलभोगविराग, शमदमादिसम्पत्तिः, मुमुक्षुत्व, इत्यादिप्रशस्तगुणगम्पन्नैरित्यर्थः । रूपादाहतप्रशसयोरिति सूत्रे अन्येभ्योऽपि दृश्यत इति वातिकेन यप प्रत्यय: । तभ्दाष्ये गुण्या ब्राह्मणा इत्युदाहरणात् । महर्षिभिरिति ॥ महान्तश्च तं ॠपयश्चेति कर्मधारयः । आन्महत इत्यात्वम् । अतितपस्विभिरित्यर्थ । अहर्दिवमिति ॥ अहश्च दिवाचेति वीप्सायां अचतुरेत्यादिना द्वन्द्वो निपातित. । अहन्यहनीत्यर्थः । तोष्ट्टय्यमानोऽपीति ॥ ष्टुञ् स्तुतौ, सकर्मक:, गुणवत्त्वेनाभिधान स्तुतिः । अगिवानक्रियानिरूपित कर्मत्वमादाय देवान् स्तौतात्यादौ द्वितीया । न तु गुणाभिधानमेव स्तुति । तथा सति गुणस्य धात्वर्थोपसगृहीतत्वेनाकर्मकत्वापत्ते । धात्वादेष्षस्सX इति षकारम्यX सकारे षत्वनिवृत्तौ धातोरेकाच इति भृशार्थे यडि अकृत्सार्वधातुकयोरिति दीर्घे सन्यटोरिति द्वित्वे शर्पूर्वा. खय इति सकारस्याभ्यासगतस्य लोपे गुणो यङ्लुकोरित्यभ्यासोकारस्य गुणेततः परस्य सस्य आदेशप्रत्यययोरिति पत्वे ष्टुत्वेन तकारस्य टकारे तोष्टृयोनि यडन्तात सनाद्यन्ता इति धातुसज्ञकात् कर्मणि लटश्शानचि आनेमुगिति मुगागमे सार्वधातुके यगिति यकि यडोऽकारस्य अतो लोप इति लोपे तोष्टूय्यमान इति रूपम् । मृशं स्तूयमानोऽपीन्यर्थः । अचिन्त्यजगद्रचनाद्यनन्तगुणसम्पन्नतया भृश सङ्कीर्त्यमानोऽपीति यावत् । अगुण इति ॥ निर्गुण इत्यर्थ । साक्षी चेता केवलो निर्गुणश्चेत्यादिश्रुतेरिति भावः । निर्गुणस्य गुणवत्वेन कथनात्मिका स्तुतिर्विरुध्देत्यापातप्रतिपन्न विरोधमपिशब्दो द्योतयति । गुणानां व्यावहारिकसत्यत्वेऽपि पारमार्थिकत्वभावान्न विरोध इत्युत्तरमीमांसायां स्पष्टम् । विभुरिति ॥ सर्वव्यापकः परमेश्र्वर इत्यर्थः । विजयतेतरामिति ॥ जिजये अकर्मकः । उत्कर्पेण वर्तनं जयः । विपराभ्याञ्जेरित्यात्मनेपदम् । तिङश्चेत्यतिशायने तरप् । किमेत्तिङव्ययेति तरबन्तात् स्वार्थे आम्प्रत्ययः । 'तध्दितश्चासर्वविभक्ति' रित्यत्र तसिलादिषु परिगणनादामन्तमव्ययम । सर्वोत्कर्षेण वर्तत इत्यर्थः । न च विजयत इति समुदायस्यातिडन्तत्वात् कथन्ततस्तरबिति वाच्यम् । वि इति हि भिन्नं पदम् । तिङन्तोत्तरपदसमासस्य छन्दोमात्रविषयत्वात् । ततश्च जयत इत्यस्मादेव तरप् । न च जयत इत्यस्य विपराभ्याञ्जेरिति कृतात्मनेपदस्य विशब्दसापेक्षत्वादसामर्थ्य शङ्क्यम् । वीत्युपसर्गस्य द्योतकत्वेन पृथगर्थविहीनतया तत्सापेक्षत्वाभाबात् तिङन्तस्य प्रधानतया तस्य विशब्दापेक्षत्वेऽपि बाधकाभावाच्चेत्यलम् ॥

वृत्तकथनपूर्वक वर्तिष्यमाणनिरूपण प्रतिजानीते । पूर्वार्ध इति ॥ तुर्यश्चतुर्थः । चतुर-