॥ ॥ श्रीगुरुचरणारविन्दाभ्यां नमः ॥ ॥
सिध्दान्तकौमुदीसहिता
॥ बालमनोरमा ॥
येनाक्षरसमाम्नायमधिगम्य महेश्र्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ १ ॥
येन धौता गिरः पुंसां विमलैश्शब्दवारिभिः ।
तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥ २ ॥
वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् ।
पाणिनि सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥ ३ ॥
श्रौत्रार्हन्तीचणैर्गुण्यैर्महर्षिभिरहर्दिवम् ।
तोष्टूय्यमानोऽप्यगुणो विभुर्विजयतेतराम् ॥ ४ ॥
अस्तु नमः पाणिनये भूयो मुनये तथास्तु वररुचये ।
किञ्चास्तु पतञ्जलये शब्दब्रह्मात्मने च धूर्जटये ॥ १ ॥
व्याख्याता बहुभिः प्रौढैरेषा सिध्दान्तकौमुदी ।
वासुदेवस्तु तद्वयाख्यां वष्टि बालमनोरमाम् ॥ २ ॥
मड्गळादीनि मड्गळमध्दयानि मड्गळान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि चाध्द्येतारश्र्च मड्गळयुक्तास्स्युरिति भाष्यप्रमाणक ग्रन्थमध्दये विघ्नविघातादिप्रयोजनाय कृतं मड्गळं शिष्यशिक्षायै ग्रन्थतो निबघ्नाति । श्रौत्रेति ॥ वेदाध्दयेता श्रोत्रियः । श्रोत्रियञ्छन्दोऽधीत इति वेदपर्यायात् छन्दश्शब्दात् द्वितीयान्तादधीत इत्यर्थे घन्प्रत्यय. । प्रकृतेः श्रोत्रादेशश्र्च निपातितः । श्रोत्रियस्य भावः श्रौत्रम् । श्रोत्रियस्य यलोपश्चेत्यणि इकारादुत्तरस्य