पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१११
बालमनोरमा ।

यत्त्वनिट्कारिकान्यासे द्वयोर्ग्रहणमित्युक्तं, तत्स्वोक्तिविरोधाद्ग्रन्थान्तरविरोधाच्चोपेक्ष्यम् । पुप्रोष । पुप्लोष । 'पृषु ७०५ वृषु ७०६ मृषु ७०७ सेचने' । 'मृषु' सहने च । इतरौ हिंसासंक्लेशनयोश्च । पर्षति । पपर्ष । पृष्यात् । 'घृषु ७०८ सङ्घर्षे' । 'हृषु ७०९ अळीके' । 'तुस ७१० ह्रस ७११ ह्लस ७१२ रस ७१३ शब्दे' । तुतोस । जह्रास । जह्लास । ररास । 'लस ७१४ श्लेषणक्रीडनयोः' 'घस्लृ ७१५ अदने' । अयं न सार्वत्रिकः । 'लिट्यन्यतरस्याम्' (सू २४२४) इत्यदेर्घस्लादेशविधानात् । ततश्च यत्र लिङ्गं वचनं वास्ति तत्रैवास्य प्रयोगः । अत्रैव पाठः शपि परस्मैपदे लिङ्गम् । लृदित्करणमङि । अनिट्कारिकासु पाठो वलाद्यार्धधातुके । क्मरचि तु विशिष्योपादानम् । घसति । घस्ता ।

२३४२ । सः स्यार्धधातुके । (७-४-४९)

सस्य तः स्यात्सादावार्धधातुके । घत्स्यति । घसतु । अधसत् । घसेत् । लिङ्गाद्यभावादाशिष्यस्याप्रयोगः ।


द्वयोर्ग्रहणमिति ॥ भौवादिकदैवादिकयोरित्यर्थः । स्वोक्तीति ॥ 'श्लिष आलिङ्गने' इति सूत्रे दैवादिकश्लिषेरनिट्केषु ग्रहणमिति न्यासकृता कैयटादिभिश्चोक्तत्वादिति भावः । पृषु वृषु इत्यारभ्य हृषुपर्यन्ता ॠदुपधा । अलीक मिथ्याभवन मिथ्योक्तिर्वा । तुसह्रसेत्यारभ्य णशगतावित्यत. प्राक् सकारान्ताः । घस्लृधातुरनिट्कः । अयमिति ॥ घस्लृधातुः सर्वेषु न प्रयोज्य इत्यर्थः । कुत इत्यत आह । लिटीति ॥ यद्ययं सार्वत्रिकस्स्यात् तदा लिट्यपि प्रयुज्येत । ततश्च 'अद भक्षणे' इति धातोर्लिट्यन्यतरस्यामिति घस्लृभावविधिर्व्यर्थः स्यादिति भावः । असार्वत्रिकत्वे सति क्व प्रयोगः क्व नेत्यत आह । ततश्चेति ॥ यत्र घस्लृधातोः प्रयोगे ज्ञापक प्रत्यक्षवचनं वास्ति तत्रैवास्य प्रयोग इत्यर्थः । तत्र तावल्लिङ्गन्दर्शयति । अत्रैवेति ॥ भ्वादिगणे अत्रैव क्रमेः परस्मैपदे अस्य पाठश्शपि प्रयोगे लिङ्गमित्यर्थः । नच धातुसज्ञार्थः पाठ इति शङ्क्यम् । द्युतदीप्तावित्युक्तरीत्याऽस्य पाठेनैव सिद्धे अत्र क्रमे तत्पाठवैयर्थ्यादिति भावः । लृदित्करणमङीति ॥ प्रयोगे लिङ्गमिति शेषः । अनिट्कारिकास्विति ॥ अनुदात्तोपदेशेषु घस्लृधातोः पाठः वलाद्यार्धधातुके प्रयोगे लिङ्गमित्यर्थः । अथ क्वचिदस्य प्रयोगे प्रत्यक्षवचनन्दर्शयति । क्मरचीति ॥ 'सृघस्यदः क्मरच्, इत्यत्र विशिष्य घसेरुपादानात्क्मरचि प्रयोगे प्रमाणमित्यर्थः । घसतीति ॥ लुटि तसाद्युपलक्षणमिदम् । लिटि अस्य प्रयोगाभावाल्लुट्युदाहरति । घस्तेति । सस्सि ॥ सः इति छेदः । सः इति षष्ठ्यन्तम् । सि इति सप्तम्यन्तम् आर्धधातुकविशेषणम् । । तदादिविधिः । 'अच उपसर्गात्त' इत्यतः त इत्यनुवर्तते । अकार उच्चारणार्थः । तदाह । सस्य तः स्यादिति ॥ आदेशे अकारस्य उच्चारणार्थत्वात्तकारः