पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
[भ्वादि
सिध्दान्तकौमुदीसहिता

२३४० । तीषसहलुभरुषरिषः । (७-२-४८)

इच्छत्यादेः परस्य तादेरार्धधातुकस्येड्वा स्यात् । रोषिता-रोष्टा । रोषिष्यति । रेषिता-रेष्टा । रेषिष्यति 'भष ६९५ भर्त्सने' । इह भर्त्सनं श्वरवः । भषति । बभाष । 'उष ६९६ दाहे' । ओषति ।

२३४१ । उषविदजागृभ्योऽन्यतरस्याम् । (३-१-३८)

एभ्यो लिट्याम्वा स्यात् । ओषां चकार । उवोष । ऊषतुः । उवोषिथ । 'जिषु ६९७ विषु ६९८ मिषु ६९९ सेचने' । जिजेष । क्रादिनियमादिट् । विवेषिथ । विविषिव । वेष्टा । वेक्ष्यति । अविक्षत् । 'पुष ७०० पुष्टौ'। पोषति । पोषिता । पोषिष्यति । अपोषीत् । अनिट्केषु 'पुष्य' इति श्यना निर्देशादयं सेट् अतो न क्सः । अङ्विधौ दैवादिकस्य ग्रहणान्नाङ् । 'श्रिषु ७०१ श्लिषु ७०२ प्रुषु ७०३ प्लुषु ७०४ दाहे' । श्रेषति । शिश्रेष । श्रेषिता । श्लेषति । शिश्लेष । श्लेषिता । अयमपि सेट् । 'अनिट्सु दैवादिकस्यैव ग्रहणम्' इति कैयटादयः ।


तीषस ॥ आर्धधातुकस्येत्यतः इडित्यनुवर्तते । 'स्वरतिसूति' इत्यतो वेति च । तीतिसप्तम्युपादानात्तदादिविधिः । इष सह लुभ रुष रिष एषान्द्वन्द्वात्पञ्चम्येकवचनम् । तदाह । इच्छत्यादेरिति ॥ इच्छतीति इषे तिपा निर्देशः । इषधातुर्विवक्षितः । इषु इच्छाया तुदादिश्शविकरणः । इष गतौ दिवादिः श्यन्विकरणः । इष आभीक्ष्ण्ये क्र्यादिः श्नाविकरणः । तत्र 'इषेस्तकारे श्यन्प्रत्ययात्प्रतिषेधः' इति वार्तिकात् श्यन्विकरणस्य न ग्रहणम् । रोषिता, रोष्टेति ॥ इडभावे ष्टुत्वेन तकारस्य टकारः । रिषेस्तादाविड्विकल्पम्मत्वा आह । रेषिता, रेष्टेति ॥ उष दाह इति ॥ सेट्ऽकोऽयम् उखधातुवत् । उषविद ॥ कासप्रत्ययादित्यतः आम् लिटीत्यनुवर्तते । तदाह । एभ्यो लिटीति ॥ आमभावपक्षे आह । उवोषेति ॥ 'अभ्यासस्यासवर्णे' इति उवडादेश. । जिषु विषु मिषु सेचन इति ॥ द्वितीयो दन्त्योष्ठ्यादिः । थलि वसि मसि च विशेषमाह । क्रादिनियमादिडिति । विवेषिथेति ॥ अजन्ताकारवत्त्वाभावेन भारद्वाजनियमाप्रवृत्तेस्थल्यपि क्रादिनियमान्नित्यमिट् । वेष्टेति ॥ तासि ष्टुत्वेन तकारस्य टः । वेक्ष्यतीति ॥ षढोरिति षस्य कः सस्य षः । अविक्षदिति ॥ 'शल इगुपधात्' इति क्सः । षस्य कः सस्य षः कित्त्वान्नगुण । पुषधातुः सेडिति मत्वा आह । पोषितेति । अपोषीदिति ॥ नेटीति वृद्धिनिषेधः । नन्वनिट्सु पुषेः पाठात् कथं सेट्कत्वमित्यत आह । अनिट्केष्विति । अत इति ॥ सेट्कत्वात् क्सो नेत्यर्थः । ननु पुषादित्वलक्षणः अइ कुतो नेत्यत आह । अङ्विधाविति ॥ एतच्चानुपदमेव पुषादिसूत्रव्याख्यावसरे स्पष्टीभविष्यति । अयमपीति ॥ पुषधातुवत् श्लिषधातुरपि भौवादिकः सेडित्यर्थः । कैयटादय इति ॥ 'श्लिष आलिङ्गने' इति सूत्रे कैयटहरदत्तादिभिस्तथा प्रपञ्चितत्वादिति भावः ।