पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१०९
बालमनोरमा ।

पालने । 'णिक्ष ६५९ चुम्बने' । प्रणिक्षति । 'त्रक्ष ६६० ष्ट्रक्ष ६६१ णक्ष ६६२ गतौ' । त्रक्षति । स्त्रक्षति । नक्षति । 'वक्ष ६६३ रोषे' । 'सङ्घाते' इत्येके । 'मृक्ष ६६४ सङ्घाते' । 'म्रक्ष' इत्येके । 'तक्ष ६६५ त्वचने' । त्वचनं संवरणं त्वचो ग्रहणं च । 'पक्ष परिग्रहे' इत्येके । 'सूर्क्ष ६६६ आदरे' । सुषूर्क्ष । 'अनादरे' इति तु क्वाचित्कोऽपपाठः । 'अवज्ञावहेळनमसूर्क्षणम्' इत्यमरः । 'काक्षि ६६७ वाक्षि ६६८ माक्षि ६६९ काङ्क्षायाम्' । 'द्राक्षि ६७० ध्राक्षि ६७१ ध्वाक्षि ६७२ घोरवाशिते च' । 'चूष ६७३ पाने' । चुचूष । 'तूष ६७४ तुष्टौ' । 'पूष ६७५ वृद्धौ' । 'मूष ६७६ स्तेये' । लूष ६७७ रूष ६७८ भूषायाम्' । 'शूष ६७९ प्रसवे' । प्रसवोऽभ्यनुज्ञानम् । तालव्योष्मादिः । 'यूष ६८० हिंसायाम्' । 'जूष ६८१ च' 'भूष ६८२ अलङ्कारे' । भूषति । 'ऊष ६८३ रुजायाम्' । ऊषां चकार 'ईष ६८४ उञ्छे' । 'कष ६८५ खष ६८६ शिष ६८७ जष ३८८ झष ६८९ शष ६९० वष ६९१ मष ६९२ रुष ६९३ रिष ६९४ हिंसार्थाः' । तृतीयषष्ठौ तालव्योस्मादी । सप्तमो दन्त्योष्ठ्यादिः । चकाष । चखाष । शिशेष । शिशेषिथ । शेष्टा । क्सः अशिक्षत् । अशेक्ष्यत् । जेषतुः । जझषतुः । शेषतुः । ववषतुः । मेषतुः ।


अक्षूवत् । एवं त्वक्षूधातुरपि । णिक्षधातुर्णोपदेश । प्रणिक्षतीति ॥ 'उपसर्गादसमासेऽपि' इति णत्वम् । त्रक्ष ष्ट्रक्ष णक्ष गताविति ॥ त्रयोऽप्यकारमध्द्या । द्वितीयष्षोपदेशः । तदाह । त्रक्षतीति ॥ षस्य सत्वे ष्टुत्वनिवृत्तिरिति भावः । णक्षधातुर्णोपदेशः । सिचि नेटीति हलन्तलक्षणवृद्धिनिषेधः । वक्ष रोष इति ॥ दन्त्योष्ठ्यादि । म्रक्षधातुरकारमध्द्य । संवरणशब्दस्य विवरण त्वचो ग्रहणमिति । सूर्क्षधातुः रेफमध्द्यः । अपपाठत्वे हेतुमाह । अवज्ञेति ॥ सूर्क्षधातोरनादरार्थकत्वे असूर्क्षणमित्यस्य आदरार्थकत्वापत्त्या अमरकोशे अवज्ञापर्यायत्वावगमविरोध इति भावः । घोरवाशिते चेति ॥ चात् काक्षायामपि । घोरवाशितक्रूरशब्दः । चूषेत्यारभ्य ऊष रुजायामिति यावदूदुपधाः । ईष उञ्छ इति ॥ ईदुपधः । कषेत्यारभ्य दश धातवः । तत्र तृतीयो दशमश्च इदुपध. । शिषधातुरनिट्कः । क्रादिनियमात्थलि वसि मसि च नित्यमिट् । अजन्ताकारवत्त्वाभावेन थलि सेट्कत्वाभावात् शिशेषिथ । शिशिषिव । शिशिषिम । अशिक्षदिति ॥ 'शल इगुपधात्' इति च्लेः क्सादेशे कित्त्वाल्लघूपधगुणनिषेधे षस्य कत्वे सस्य षत्वमिति भावः । ववषतुरिति ॥ 'न शसदद' इति निषेधादेत्वाभ्यासलोपौ न । रुषधातुस्सेट्कः । रोषति । रुरोष । रुरुषतुः । रुरुषुः । रुरोषिथ । रुरुषथुः । रुरुष । रुरोष । रुरुषिव । रुरुषिम ।