पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०८
[भ्वादि
सिध्दान्तकौमुदीसहिता

ऊदित्त्वाद्वेट् । 'नेटि' (सू २२६८) । मा भवानक्षीत् । अक्षिष्टाम् । अक्षिषुः । इडभावे तु मा भवानाक्षीत् । आष्टाम् । आक्षुः । 'तक्षू ६५५ त्वक्षू ६५६ तनूकरणे' ।

२३३९ । तनूकरणे तक्षः । (३-१-७६)

श्नुः स्याद्वा शब्विषये । तक्ष्णोति-तक्षति वा काष्ठम् । ततक्षिथ- ततष्ठ । अतक्षीत् । अतक्षिष्टाम् । अताक्षीत् । अताष्टाम् । 'तनूकरणे' किम् । वाग्भिः संतक्षति । भर्त्सयतीत्यर्थः । 'उक्ष ६५७ सेचने' । उक्षां चकार । 'रक्ष ६५८


गुणे अवादेशः । अक्ष्णवाव । अक्ष्णवाम । शपि तु अक्षत्वित्यादि । आक्ष्णोदिति ॥ लडस्तिप् श्नोर्गुर्णः आट् वृद्धिः । आक्ष्णुताम् । आक्ष्णुवन् । आक्ष्णोः । आक्ष्णुतम् । आक्ष्णुत । आक्ष्णवमिति ॥ मिप. अम् श्नोर्गुणः अवादशः । आक्ष्णुव । आक्ष्णुम । अक्ष्णुयादिति ॥ विधिलिङि यासुटो डित्त्वात् श्नोर्न गुण । अक्ष्णुयुरिति ॥ अक्ष्णुयाः । अक्ष्णुयातम् । अक्ष्णुयात । अक्ष्णुयाम् । अक्ष्णुयाव । अक्ष्णुयाम । शप्पक्षे आक्षदित्यादि । अक्ष्यादिति ॥ आशीर्लिङः आर्धधातुकत्वान्न श्नुः, नापि शप् । लुडि सिचि विशेषमाह । ऊदित्त्वाद्वेडिति ॥ तत्र इट्पक्षे आह । नेटीति ॥ हलन्तलक्षणा वृद्धिर्नेत्यर्थः । नच अभैत्सीदित्यादावेकेन हला व्यवधाने हलन्तलक्षणवृद्धेश्चरितार्थत्वादत्र न तत्प्रसक्तिरिति शङ्क्यम् । रञ्जेः अरांक्षीदिदित्यत्र वृद्धिसिद्धये अनेकाल्व्यवधानेऽपि हलन्तलक्षणवृद्धिप्रवृत्तेर्भाष्यादौ प्रपञ्चितत्वादिति भावः । मा भवानक्षीदिति ॥ आटि सति हलन्तलक्षणवृद्धौ सत्यामसत्याञ्च रूपे भेदाभावात् मा भवानित्युपात्तम् । आक्षिष्टाम् । अक्षिषुरिति ॥ अत्रापि मा भवानिति सम्बध्द्यते । इडभावे त्विति ॥ लुडस्तिपि अक्ष् स् ईदिति स्थिते इडभावान्नेटीति निषेधाप्रसक्तया हलन्तलक्षणवृद्धौ झलो झलीति सिज्लोपे स्कोरिति कलोपे तकारस्य ष्टुत्वम् । आक्षुरिति ॥ अक्ष् स् उस् इति स्थिते हलन्तलक्षणवृद्धौ स्कोरिति कलोपे षस्य कत्वे सस्य षत्वमिति भावः । आक्षीः । आष्टम् । आष्ट । आक्षम् । आक्ष्व । आक्ष्म । आक्षिष्यत् । आक्ष्यत् । आक्ष्यताम् । आक्ष्यन् । आक्ष्य । आक्ष्यतम् । आक्ष्यत । आक्ष्यम् । आक्ष्याव । आक्ष्याम । तक्षू त्वक्षू इति ॥ स्थूलस्य काष्ठादेः कतिपयावयवापनयनेन सूक्ष्मीकरणन्तनूकरणम् । तनूकरणे ॥ शेषपूरणेन सूत्र व्याचष्टे । श्नुः स्याद्वा शब्विषये इति ॥ स्वादिभ्यः श्नुरित्यतः श्नुरिति, कर्तरि शबित्यतः कर्तरीति, सार्वधातुके यगित्यत सार्वधातुक, इति चानुवर्तते । तनूकरणेऽर्थे विद्यमानात् तक्ष्धातोः श्नु स्यात्कर्त्रर्थे सार्वधातुके इति फलितम् । नच तक्षूधातोस्तनूकरणार्थकत्वाव्यभिचारात् श्नुविधौ तनूकरणग्रहण व्यर्थमिति वाच्यम् । अतएव धातुपाठे अर्थनिर्देशस्य उपलक्षणत्वावगमात् । तक्ष्णोतीत्यादि ॥ अक्षूवद्रूपाणि । लुडि सिचि इट्पक्षे नेटीति वृद्धिनिषेधे अतक्षीदिति रूपम् । इडभावे तु अताक्षीदिति च