पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१०७
बालमनोरमा ।

अथार्हत्यन्ताः परस्मैपदिनः । 'घुषिर् ६५३ अविशब्दने' विशब्दनं प्रतिज्ञानं, ततोऽन्यस्मिन्नर्थ इत्येके । 'शब्दे' इत्यन्ये पेठुः । घोषति । जुघोष । घोषिता । इरित्त्वादङ्वा । अघुषत्-अघोषीत् । 'अक्षू ६५४ व्याप्तौ' ।

२३३८ । अक्षोऽन्यतरस्याम् । (३-१-७५)

अक्षो वा श्नुप्रत्ययः स्यात्कर्त्रथे सार्वधातुके परे । पक्षे शप् । अक्ष्णोति । अक्ष्णुतः । अक्ष्णुवन्ति । अक्षति । अक्षतः । अक्षन्ति । आनक्ष । आनक्षिथ-आनष्ठ । अक्षिता-अष्टा । अक्षिष्यति । 'स्कोः' (सू ३८०) इति कलोपः । 'षढोः कः सि' (सू २९५) । अक्ष्यति । अक्ष्णोतु । अक्ष्णुहि । अक्ष्णवानि । आक्ष्णोत् । आक्ष्णवम् । अक्ष्णुयात् । अक्ष्णुयुः । अक्ष्यात् ।


देशे क्सस्याकारलोप. पररूप वा । ग्लह चेति ॥ ग्लहधातुरपि ग्रहणे वर्तत इत्यर्थः । अदुपधोऽयम् । घुषि कान्तीति ॥ उदुपधोऽयम् । इदित्त्वान्नुम् । नश्चेत्यनुस्वारः । यय्परकत्वाभावान्न परसवर्ण । तदाह । घुंषत इति ॥ सेट्कोऽयम् । अदुपधपक्षे तु घषते । जघषे । ऊष्मान्ता आत्मनेपदिनो गता । अथार्हत्यन्ताः परस्मैपदिन इति ॥ ऊष्मान्ता इति शेषः । तत्र तुस ह्रेसेत्यतः प्राक् षान्ताः । घुषिर् इति ॥ इर् इत् । प्रतिज्ञानमिति ॥ वेदा प्रमाणमित्याद्यभ्युपगम इत्यर्थ । ततोऽन्यस्मिन्निति ॥ विशब्दनात् अन्यत् अविशब्दन तस्मिन्नित्यर्थः । इरित्त्वादङ्वेति ॥ इरितो वेत्यनेनेति शेषः । अघुषदिति ॥ अडो डित्त्वान्न लघूपधगुण. । अघोषीदिति ॥ अडभावपक्षे लघूपधगुणे 'इट ईटि' इति सिज्लोपः । हलन्तलक्षणवृद्धेः 'नेटि' इति निषेधः । अक्षधातुः ऊादत्त्वाद्वेट्कः । अक्षोऽन्यतरस्याम् ॥ अक्ष इति पञ्चमी । स्वादिभ्यः श्नुरित्यत. श्नुरिति, कर्तरि शबित्यतः कर्तरीति, सार्वधातुके यगित्यतः सार्वधातुक इति, चानुवर्त्तते । तदाह । अक्षो वेति ॥ श्नुप्रत्ययस्य शित्त्व सार्वधातुकत्वार्थम् । तत्फलन्तु 'स्वादिभ्य. श्नु.' इत्यत्र वक्ष्यते । अक्ष्णोतीति ॥ तिपि श्नुः तस्य तिपः पित्त्वेन डित्त्वाभावात् सार्वधातुकेति श्नो गुणः णत्वम् । अक्ष्णुत इति ॥ तसः अपित्त्वेन डित्त्वात् श्नो न गुणः । अक्ष्णुवन्तीति ॥ डित्त्वाद्गुणाभावे उवड् । अक्ष्णोषि । अक्ष्णुथः । अक्ष्णुथ । अक्ष्णोमि । अक्ष्णुवः । अक्ष्णुमः । अक्षतीति शप्पक्षे रूपम् । आानक्षेति ॥ णलि द्विहल्त्वान्नुट् । आनक्षतुः । आनक्षुः । ऊदित्त्वादिट्पक्षे आह । आनक्षिथेति ॥ इडभावे आह । आनष्ठेति ॥ आनक्ष् थ् इति स्थिते स्कोरिति कलोपः थस्य ष्टुत्वेन ठ । अष्टेति ॥ लुटि तासि इडभावपक्षे स्कोरिति कलोपे तकारस्य ष्टुत्वेन टः । अक्ष् स्य इति स्थिते प्रक्रियान्दर्शयति । स्कोरिति कलोपः । षढोः कस्सीति ॥ कात्परत्वात् सस्य षत्वञ्च । अक्ष्णोत्विति ॥ अक्ष्णोतु । अक्ष्णुतात् । अक्ष्णुताम् । अक्ष्णुवन्तु । अक्ष्णुहीति ॥ संयोगपूर्वत्वादुतश्चेति हेर्लुक् न । हेरपित्त्वेन डित्वात् श्नोर्न गुणः । अक्ष्णुतात् । अक्ष्णुतम् । अक्ष्णुत । अक्ष्णवानीति ॥ आटः पित्त्वेन डित्त्वाभावान्न गुणनिषेधः ।