पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०६
[भ्वादि
सिध्दान्तकौमुदीसहिता

अघाक्षि । 'गृहू ६५० ग्रहणे' । गर्हते । जगृहे । 'ऋदुपधेभ्यो लिटः कित्त्वं गुणात्पूर्वविप्रतिषेधेन' (वा ५९३) । जगृहिषे—जघृक्षे । जघृढ्वे । गर्हिता-गर्ढा । गर्हिष्यते—घर्क्ष्यते । गर्हिषीष्ट-घृक्षीष्ट । लुङि । अगर्हिष्ट । इडभावे ।

२३३६ । शल इगुपधादनिटः क्सः । (३-१-४५)

इगुपधो यः शलन्तस्तस्मादनिटश्च्लेः क्सादेशः स्यात् । अघृक्षत ।

२३३७ । क्सस्याचि । (७-३-७२)

अजादौ तङि क्सस्य लोपः स्यात् । 'अलोऽन्त्यस्य' (सू ४२) । अघृक्षाताम् । अघृक्षन्त । 'ग्लह ६५१ च' । ग्लहते । 'घुषि ६५२ कान्तिकरणे' । घुंषते । जुघुंषे । केचित् 'घष' इत्यदुपधं पठन्ति ।


इडभावपक्षे सलोपः । ढत्वघत्वष्टुत्वढलोपाः । ध्वममाश्रित्य ढलेापात्पूर्व भष्भाव. । अघाक्षीति ॥ इडभावे हस्य ढ । भष्भाव. ढस्य क सस्य षत्वमिति भावः । अघाक्ष्वहि । अगाहिष्यत । अघाक्ष्यत । गृहूधातु ऊदित् । ॠदुपधः । गर्हते इति ॥ लटस्तिपि लघूपधगुणे शपि रपरत्वम् । जगृहे इति ॥ असयोगादिति कित्त्वाद्गुणाभावः । न च कित्त्वात् परत्वाद्गुणः शङ्क्यः 'ॠदुपधेभ्यो लिट. कित्त्व गुणात् पूर्वविप्रतिषेधेन' इति वार्तिकादिति भावः । ऊदित्त्वादिड्विकल्प मत्वा आह । जगृहिषे । जघृक्षे इति ॥ अभ्यासे उरदत्व हलादिशेषः जश्त्वम् इट् षत्वम् । इडभावे तु ढत्वभष्भावकत्वषत्वानि । ध्वमि जगृहिध्वे इति सिद्धवत्कृत्य इडभावे आह । जघृढ्वे इति ॥ हस्य ढ भष्भावः ढलोपः । गर्ढेति ॥ इडभावे गुणे रपरत्वे ढत्वधत्वष्टुत्वढलोपाः । घर्क्ष्यते इति ॥ गुणः रपरत्व हस्य ढः भष्भावः ढस्य कः षत्वम् । घृक्षीष्टेति ॥ आशीर्लिङः सीयुटि इडभावे लिड्सिचाविति कित्त्वाद्गुणाभावे हस्य ढः भरूभावः ढस्य कः षत्वम् । अगर्हिष्टेति ॥ सिच इटि गुणे रपरत्वे षत्वे रूपम् । शल इगुपधा ॥ शलन्त इति ॥ 'धातोरेकाच' इत्यतोऽनुवृत्तधातुविशेषणत्वात्तदन्तविधिरिति भाव । सिचोऽपवादः क्सादेशः अदन्तः । ककार इत् । अघृक्षतेति ॥ च्लेः क्सः । तस्य कित्त्वादृकारस्य न गुणः । हस्य ढः भष्भावः ढस्य कः षत्वमिति भावः । 'अघृक्ष आताम्' इति स्थिते 'आतो ङित' इति इयादेशे प्राप्ते । क्सस्य ॥ अचीत्यस्याङ्गाक्षिप्तप्रत्ययविशेषणत्वात् तदन्तविधिः । 'घोर्लोपो लेटि वा' इत्यतः लोप इत्यनुवर्तते । तदाह । अजादावित्यादिना । अलोऽन्त्यस्येति ॥ अन्त्यस्याकारस्य लोप इति भाव । 'वस्तुतस्तु लुग्वा दुहदिह' इत्युत्तरसूत्रादात्मनेपदे इत्यनुवृत्तेस्तद्विशेषणत्वादचीति तदादिविधिः । तेन दृशेः क्सप्रत्यये तादृक्ष इत्यादौ नायं लोपः । अजादौ तडीत्येव क्वचित्पाठो दृश्यते । अघृक्षातामिति ॥ 'अघृक्ष आताम्' इति स्थिते क्साकारस्य लोपे अत परत्वाभावात् 'आतो डितः' इति इय् नेति भावः । अघृक्षन्तेति ॥ झस्य अजादित्वाभावात्तस्मिन्परे क्सस्य अकारलोपाभावादतः परत्वादात्मनेपदेष्वनत इत्यदादेशो न । कृते तु झोऽन्ता-