पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१०५
बालमनोरमा ।

६४० वल्ह ६४१ परिभाषणहिंसाच्छादनेषु' । दन्त्योष्ठ्यादी । केचित्तु पूर्वयोर्दन्त्योष्ठ्यादितामनयोरोष्ठ्यादितां चाहुः । 'प्लिह ६४२ गतौ' । पिप्लिहे । 'वेहृ ६४३ जेहृ ६४४ बाहृ ६४५ प्रयत्ने' । आद्यो दन्त्योष्ठ्यादि: । अन्त्यः केवलोष्ठ्यादिः । 'उभावप्योष्ठ्यादी' इत्येके । 'दन्त्योष्ठ्यादी' इत्यपरे । जेहतिर्गत्यर्थोऽपि बबाहे । 'द्राहृ ६४६ निद्राक्षये' । 'निक्षेपे' । इत्येके । 'काशृ ६४७ दीप्तौ' । चकाशे । 'ऊह ६४८ वितर्क' ऊहाञ्चक्रे' । 'गाहू ६४९ विलोडने' । गाहते । जगाहे । जगाहिषे । जघाक्षे । जगाहिढ्वे-जगाहिध्वे-जघाढ्वे । गाहिता ।

२३३५ । ढो ढे लोपः । (८-३-१३)

ढस्य लोपः स्याड्ढे परे । गाढा । गाहिष्यते-घाक्ष्यते । गाहिषीष्ट-घाक्षीष्ट । अगाहिष्ट-अगाढ । अघाक्षाताम् । अघाक्षत । अगाढाः । अघाढ्वम् ।


घुषिकान्तीत्यतः प्राक् हकारान्ताः । काशृधातुस्तु शकारान्तः । प्लिहधातुरिदुपधः । ऊह वितर्के इति ॥ युक्तया अर्थनिर्णयो वितर्क. । 'अनुक्तमप्यूहति पण्डितो जनः' । इत्यत्र तु अनुदात्तेत्त्वलक्षणात्मनेपदमनित्यमिति बोध्द्यम् । गाह्धातुरूदित्त्वाद्वेट् । तदाह । जगाहिषे । जघाक्षे इति ॥ इडभावे जगाह् से इति स्थिते होढ. एकाच इति भष्भावेन गस्य घ षढोरिति ढस्य कः सस्य षः । जगाहिढ्वे, जगाहिध्वे इति ॥ इट्पक्षे 'विभाषेट:' इति ढत्वविकल्पः । इडभावे त्वाह । जघाढ्वे इति ॥ जगाह् ध्वे इति स्थिते हस्य ढः धस्य ष्टुत्वेन ढः गस्य भष्घकार. पूर्वस्य ढस्य 'ढो ढे लोपः' इति वक्ष्यमाणो लोपः । ढ्रलोप इति सूत्र त्विहैव पठितुं युक्तम् । गाहितेति ॥ इट्पक्षे रूपम् । इडभावे तु गाह् ता इति स्थिते हस्य ढत्वे 'झषस्तथोर्धोऽध.' इति तकारस्य धत्वे ष्टत्वेन धस्य ढत्वे गाढ् ढा इति स्थिते । ढोढे ॥ ढ. इति षष्ठ्यन्तम् । तदाह । ढस्येति ॥ ढकारस्येत्यर्थः । इति पूर्वस्य ढकारस्य लोपे गाढा इति रूपम् । ढलोपे ष्टुत्वस्यासिद्धत्वन्तु न । तथा सति ढलोपविधिवैयर्थ्यात् । घाक्ष्यते इति ॥ इडभावे हस्य ढ गस्य भष्घकारः ढस्य कः सस्य ष इति भावः । घाक्षीष्टेति ॥ आशीर्लिङि सीयुटि इडभावपक्षे हस्य ढः गस्य भष् घकारः ढस्य कः सस्य ष इति भावः । अगाहिष्टेति ॥ सिच इट् । सस्य षः तकारस्य ष्टुत्वेन टः । इडभावे त्वाह । अगाढेति ॥ अगाह् स् त इति स्थिते सिच इडभावे झलो झलीति लोपः ढत्वधत्वष्टुत्वढलोपाः । सलोपात्पूर्वं भष्भावस्तु न । भष्भावस्यासिद्धतया झलो झलीति सलोपस्य पूर्व प्रवृत्तेः । न च कृतेऽपि सलोपे प्रत्ययलक्षणेन सकारपरकत्वात् भष्दुर्वार इति शङ्क्यम् । वर्णाश्रये प्रत्ययलक्षणाभावादिति भावः । अघाक्षातामिति ॥ इडभावपक्षे ढघकषा. । अघाक्षतेति । अगाढा इति ॥ थास् सिच् इडभावे सलोपः ढत्वधत्वष्टुत्वढलोपाः । अघाढ्वमिति ॥ ध्वमि