पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
[भ्वादि
सिध्दान्तकौमुदीसहिता

भवानवीत् । धावु '६०१ गतिशुद्ध्योः' । स्वरितेत् । धावति-धावते । दधाव-दधावे ।

अथोष्मान्ता आत्मनेपदिनः । 'धुक्ष ६०२ धिक्ष' ६०३ सन्दीपनक्लेशनजीवनेषु । धुक्षते । दुधुक्षे । धिक्षते । दिधिक्षे । 'वृक्ष ६०४ वरणे' । वृक्षते । ववृक्षे । 'शिक्ष ६०५ विद्योपादाने' । शिक्षते । 'भिक्ष ६०६ भिक्षायामलाभे लाभे च' । भिक्षते । 'क्लेश ६०७ अव्यक्तायां वाचि' । 'बाधने' इति दुर्गः । क्लेशते । चिक्लेशे । 'दक्ष ६०८ वृद्धौ शीघ्रार्थे च' । दक्षते । ददक्षे । 'दीक्ष ६०९ मौण्ड्येज्योपनयननियमव्रतादेशेषु' । दीक्षते । दिदीक्षे । 'ईक्ष ६१० दर्शने' । ईक्षाञ्चक्रे । 'ईष ६११ गतिहिंसादर्शनेषु' । ईषाञ्चक्रे । 'भाष ६१२ व्यक्तायां वाचि' । भाषते । 'वर्ष ६१३ स्नेहने' । दन्त्योष्ठ्यादिः । ववर्षे । 'गेषृ ६१४ अन्विच्छायाम्' । 'ग्लेषृ' इत्येके । अन्विच्छा अन्वेषणम् । जिगेपे । 'पेषृ ६१५ प्रयत्ने' । पेषते । 'जेषृ ६१६ णेषृ ६१७ एषृ ६१८ प्रेषृ ३१९ गतौ' । जेषते । नेषते । एषाञ्चक्रे । पिप्रेषे । 'रेषृ ६२० हेषृ ६२१ ह्रेषृ ६२२ अव्यक्ते शब्दे' । आद्यो वृकशब्दे, ततो द्वौ अश्वशब्दे । रेषते । हेषते । ह्रेषते । 'कासृ ६२३ शब्दकुत्सायाम्' । कासाञ्चक्रे । 'भासृ ६२४ दीप्तौ' । बभासे । 'णासृ ६२५ रासृ ६२६ शब्दे' । नासते । प्रणासते । 'णस ६२७ कौटिल्ये' । नसते । 'भ्यस ६२८ भये' । भ्यसते । बभ्यसे । 'आङः शसि ६२९ इच्छायाम्' । आशंसते । आशशंसे । 'ग्रसु ६३० ग्लसु ६३१ अदने' । जग्रसे । जग्लसे । 'ईह ६३२ चेष्टायाम्' । ईहाञ्चक्रे । 'वहि ६३३ महि ६३४ वृद्धौ' । वंहते । ववंहे । मंहते । 'अहि ६३५ गतौ' । अंहते । आनंहे । 'गर्ह ६३६ गल्ह ६३७ कुत्सायाम्' । जगर्हे । जगल्हे । 'बर्ह ६३८ बल्ह ६३९ प्राधान्ये' । ओष्ठ्यादी । 'वर्ह


नेटीति न वृद्धि. । मव्यादयोऽवत्यन्ताः परस्मैपदिनो गताः । धावुगतीति ॥ उदिदयम् । स्वरितेदिति ॥ ततश्च कर्तृगामिनि फले आत्मनेपदम् । अन्यथा परस्मैपदमिति भावः । अथोष्मान्ता इति ॥ तत्र धुक्षेत्यारभ्य कासृधातोः प्राक् षकारान्ताः । तत्र क्लेशधातुरेकः शकारान्तः । दीक्ष मौण्ड्येति ॥ पञ्चार्थाः । णेषृधातुर्णोपदशः । कासृधातुमारभ्य ईहधातोः प्राक् सकारान्ताः । कासाञ्चक्र इति ॥ कास्प्रत्ययादित्याम् । णासृधातुर्णसधातुश्च णोपदश । आङः शसीति ॥ आङः परः शसिधातुरिच्छायामित्यर्थः । ईहेत्यारभ्य काशृधातुवर्ज