पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१०३
बालमनोरमा ।

२३३३ । लोपश्चास्यान्यतरस्यां म्वोः । (६-४-१०७)

असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तस्याङ्गस्य लोपो वा स्यात् म्वोः परयोः । धिन्वः—धिनुवः । धिन्म:-धिनुमः । मिपि तु परत्वाद्गुणः । धिनोमि ।

२३३४ । उतश्च प्रत्ययादसंयोगपूर्वात् । (६-४-१०६)

असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तादङ्गात्परस्य हेर्लुक्स्यात् । धिनु । नित्यत्वादुकारलोपात्पूर्वमाट् । धिनवाव । धिनवाम । जिन्वतीत्यादि । 'रिवि ५९५ रवि ५९६ धवि ५९७ गत्यर्था:' । रिण्वति । रण्वति । धन्वति । 'कृवि ५९८ हिंसाकरणयोश्च' । चकाराद्गतौ । 'कृणोति' इत्यादि धिनोतिवत् । अयं स्वादौ च । 'मव ५९९ बन्धने' । मवति । मेवतुः । मेवुः । अमवीत्-अमावीत् । 'अव ६०० रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु' । अवति । आव । मा


स्मात् झि । झोऽन्त । उ प्रत्ययः । वकारस्य अकारः । अतो लोपः । उकारस्य यणिति भावः । अत्र वकारस्य स्थानिवत्त्वेन आर्धधातुकत्वेऽपि नेट् । उकारवृत्त्यार्धधातुकत्वस्य अल्धर्मत्वेन अनल्विधाविति निषेधात् । तदिदम्भो भगो इति सूत्रभाष्ये स्पष्टम् । धिनोषि । धिनुथ. । धिनुथ । धिनोमि । लोपश्च ॥ 'उतश्च प्रत्ययादसयोगपूर्वात्' इति पूर्वसूत्रोक्त उकार. अस्येत्यनेन परामृश्यते । प्रत्ययशब्दः प्रत्ययसम्बन्धिनि वर्तते । असयोगपूर्वात् प्रत्ययादिति च उकारे अन्वेति । स च अङ्गस्य विशेषणम् । तदन्तविधिः । तदाह । असंयोगेति । प्रत्ययोकार इति ॥ प्रत्ययसम्बन्धी उकार इत्यर्थः । प्रत्यय उकार इति व्याख्याने तु सुनुवः सुनुम इत्यत्र न स्यात् । तत्र श्नोरेव प्रत्ययत्वात् । प्रत्ययेति किम् । युवः । युम. । असयोगपूर्वादिति किम् । शक्नुवः । शक्नुमः । धिन्वः, धिनुवः, इति ॥ अत्र उप्रत्ययस्य उकारान्तत्व व्यपदेशिवत्त्वेन बोध्द्यम् । नन्वेव धिनोमीत्यत्र मिपि धिनु मि इति स्थिते उकारस्य लोपः स्यादित्यत आह । मिपित्विति ॥ दिधिन्व । धिन्विता । धिन्विष्यति । धिनोतु । उतश्च । हेर्लुक्स्यादिति ॥ चिणो लुगित्यतः अतोहेरित्यतश्च तदनुवृत्तेरिति भावः । लोटो मिपि उप्रत्यये वकारस्य अकारे अतो लोपे धिनु मि इति स्थिते मेर्निभावे लोडुत्तमस्येत्यडागमञ्च बाधित्वा परत्वादुकारस्य 'लोपश्चास्यान्यतरस्याम्' इति लोपमाशङ्क्याह । नित्यत्वादुकारलोपात् पूर्वमाडिति ॥ निभावस्याप्युपलक्षणम् । उकारलोपे कृते अकृते च निभावस्य आडागमस्य च प्रवृत्त्या नित्यत्वादुकारलोपात्पूर्वमेव निभावाडागमयो कृतयो. उकारलोपस्य प्रसक्तौ आट. पित्त्वेन डित्त्वाभावादुकारस्य गुणे अवादेशे च धिनवानीति रूपमिति भावः । अधिनोत् । धिनुयात् । धिन्व्यात् । अधिन्वीत् । अधिन्विष्यत् । कृणोतीत्यादीति ॥ धिविवद्रूपाणीति भावः । अयं स्वादौ चेति ॥ कृविरित्यर्थ । अव रक्षणेति ॥ स्वाम्यर्थः ऐश्वर्यम् । मा भवानवीदिति ॥