जेता । जीयात् । अजैषीत् । 'जीव ५६२ प्राणधारणे' । जिजीव । 'पीव ५६३ मीव ५६४ तीव ५६५ णीव ५६६ स्थौल्ये' । पिपीव । मिमीव । तितीव । निनीव । 'क्षीवु ५६७ क्षेवु ५६८ निरसने' । 'उर्वी ५६९ तुर्वी ५७० थुर्वी ५७१ दुर्वी ५७२ धुर्वी ५७३ हिंसार्थाः' । ऊर्वाञ्चकार । 'उपधायां च' (सू २२६५) इति दीर्घः । तुतूर्व । 'गुर्वी ५७४ उद्यमने' । गूर्वति । जुगूर्व । 'मुर्वी ५७५ बन्धने' । 'पुर्व ५७६ पर्व ५७७ मर्व ५७८ पूरणे' । 'चर्व ५७९ अदने' । 'भर्व ५८० हिंसायाम्' | 'कर्व ५८१ खर्व ५८२ गर्व ५८३ दर्पे' । 'अर्व ५८४ शर्व ५८५ षर्व ५८६ हिंसायाम्' । आनर्व । शर्वति । सर्वति । 'इवि ५८७ व्याप्तौ' । इन्वति । इन्वां चकार । 'पिवि ५८८ मिवि ५८९ णिवि ५९० सेचने' । तृतीयो मूर्धन्योष्मादिरित्येके । 'सेवने' इति तरङ्गिण्याम् । पिन्वति । पिपिन्व । 'हिवि ५९१ दिवि ५९२ धिवि ५९३ जिवि ५९४ प्रीणनार्थाः' । हिन्वति दिन्वति ।
२३३२ । धिन्विकृण्व्योर च । (३-१-८०)
अनयोरकारोऽन्तादेशः स्यादुप्रत्ययश्च शब्विषये । 'अतो लोपः' (सू २३०८) । तस्य स्थानिवद्भावाल्लघूपधगुणो न । उप्रत्ययस्य पित्सु गुणः । धिनोति । धिनुतः । धिन्वन्ति ।
जिग्य । 'णलुत्तमो वा' इति मत्वा आह । जिगाय । जिगयेति ॥ क्रादिनियमादिट मत्वा आह । जिग्यिव । जिग्यिमेति । जेतेति ॥ जेष्यति । जयतु । अजयत् । आशीर्लिङि 'अकृत्सार्वधातुकयोः' इति दीर्घ मत्वा आह । जीयादिति । अजैषीदिति ॥ 'सिचि वृद्धिः' इति वृद्धिरिति भावः । अजेष्यत् । षर्वधातुष्षोपदेशः । इविधातोरिदित्त्वान्नुम् । तदाह । इन्वतीति । इन्वाञ्चकारेति ॥ नुमि इजादिगुरुमत्त्वादामिति भावः । पिविमिवीत्यादय इदित् । धिन्विकृण्व्योः ॥ अ इति लुप्तप्रथमाकम् । धिविकृव्यो कृतनुमो: धिन्विकृण्वीति निर्देशः । 'तनादिकृञ्भ्य उ इत्यतः उरिति चकारादनुकृष्यते । 'कर्तरि कृत्' इत्यतः कर्तरीति, सार्वधातुके यगित्यतः सार्वधातुक इति च । तदाह । अनयोरित्यादिना ॥ वकारस्याकारः धिन उ ति इति स्थितम् । अतो लोप इति ॥ युगपत्सन्नियोगशिष्टतया उप्रत्ययाकारयोरार्धधातुकयोरुपदेशकाले धिन इत्यस्यादन्तत्वमिति भावः । नन्वत्र वकारस्य लोप एव विधीयतां, किमकारविधिनेत्यत आह । तस्येति ॥ वकारस्य लोपविधौ तु अजादेशत्वाभावात् स्थानिवत्त्व न स्यादिति भावः । तथा च, धिनु ति इति स्थिते आह । उप्रत्ययस्येति । धिनुत इति ॥ धिविधातोर्नुमि तसि उप्रत्यये वकारस्य अकारादेशे अतो लोपे तसो डित्त्वादुकारस्य न गुणः । धिन्वन्तीति ॥ धिन्व इत्य-