पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१०१
बालमनोरमा ।

आशुगमने' । शश्वाल । अश्वालीत् । शश्वल्ल । अश्वल्लीत् । 'खोलृ ५५१ खोर्ऋ ५५२ गतिप्रतिघाते' । खोलति । खोरति । 'धोर्ऋ ५५३ गतिचातुर्ये' । धोरति । 'त्सर ५५४ छद्मगतौ' । तत्सार । अत्सारीत् । 'क्मर ५५५ हूर्च्छने' । चक्मार । 'अभ्र ५५६ वभ्र ५५७ मभ्र ५५८ चर ५५९ गत्यर्थाः । चरतिर्भक्षणेऽपि । अभ्रति । आनभ्र । मा भवानभ्रीत् । अङ्गान्त्यरेफस्यातः समीपत्वाभावान्न वृद्धिः । 'ष्ठिवु ५६० निरसने' । 'ष्ठिवुक्लमु–' (सू २३२०) इति दीर्घः । ष्ठीवति । अस्य द्वितीयो वर्णष्ठकारो वेति वृत्तिः । तिष्ठेव । तिष्ठिवतुः । तिष्ठिवुः । टिष्ठेव । टिष्ठिवतुः । टिष्ठिवुः । 'हलि च' (सू ३५४) इति दीर्घः । ष्ठीव्यात् । 'जि ५६१ जये' । अयमजन्तेषु पठितुं युक्तः । जयः उत्कर्षप्राप्तिः । अकर्मकोऽयम् । जयति ।

२३३१ । सन्लिटोर्जेः । (७-३-५७)

जयतेः सन्लिण्णिमित्तो योऽभ्यासस्ततः परस्य कुत्वं स्यात् । जिगाय । जिग्यतुः जिग्युः । जिगयिथ-जिगेथ । जिगाय-जिगय । जिग्यिव । जिग्यिम ।


बन्धभेदात्पुन पाठ । खोलृ खोर्ऋ इति ॥ द्वितीयो रेफान्त । ॠदित् । इत आरभ्य ष्ठिवे प्राक् रेफान्ताः । धोर्ऋ गतिचातुर्य इति ॥ अश्वगतिविशेष इत्यर्थः । रेफान्तोऽयम् । ॠदित् । त्सर छद्मगताविति ॥ कपटगतावित्यर्थः । क्मर हूर्छन इति ॥ कुटिलीभवन इत्यर्थः । ष्ठिवु निरसन इति ॥ इदुपध । उदित् । इत आरभ्य ऊष्मान्तेभ्य प्राक् वकारान्ताः । तिपि शपि लघूपधगुणे प्राप्ते आह । ष्ठिवुक्लम्वितीति ॥ ल्युटि तु शित्परकत्वाभावात् दीर्घाभावे लघूपधगुण । ष्ठीवनमिति तु पृषोदरादित्वात् समाधेयम् । अस्येति ॥ ष्ठिवुधातो. द्वितीयो वर्णः थकार इत्यर्थ. । कृतष्टुत्वस्य निर्देश इति भाव । षोपदेशोऽयम् । केवलदन्त्यथकारपरकसादित्वात्षोपदेशत्वेऽपि न सत्वम् । 'सुब्धातुष्ठिवु' इति निषेधात् । लिटि तु 'शर्पूर्वाः खय.' इति षकारवकारयोर्निवृत्त्या षत्वनिवृत्तौ रूपमाह । तिष्ठेवेति ॥ ठकारस्य स्वाभाविकत्वे तु टिष्ठेवेति रूपम् । जि जय इति ॥ जिधातुरनिट्क. । सन्लिटोर्जेः ॥ 'अभ्यासाच्च' इति सूत्रात् अभ्यासादित्यनुवर्तते । 'चजो. कुघिण्यतो' इत्यस्मात् कु इति च । सन्लिटोरिति निमित्तसप्तमी अभ्यासे अन्वेति । तदाह-सन्लिण्णिमित्तोयोऽभ्यास इत्यादि ॥ सनि लिटि च अभ्यासात् परस्य कुत्वमिति व्याख्याने तु यङ्लुगन्तात् सनि जेजयिषति इत्यत्र कुत्व स्यात् । अतः सन्लिण्णिमित्तो योऽभ्यास इति व्याख्येयमिति माधवः । जिगायेति ॥ णलि द्वित्वे वृद्धौ उत्तरखण्डे जस्य कुत्वेन ग । जिग्यतुरिति ॥ कित्त्वाद्गुणाभावः । लिटि एकाच इति इण्णिषेधं बाधित्वा क्रादिनियमादिटि प्राप्ते थलि 'अचस्तास्वत्' इति तन्निषेधस्य भारद्वाजनियमाद्विकल्प । तदाह । जिगयिथ । जिगेथेति ॥ जिग्यथुः ।