पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१००
[भ्वादि
सिध्दान्तकौमुदीसहिता

हलादेः' (सू २२८४) इति विकल्पस्य चापवादः । मा भवानलीत् । अयं स्वरितेदित्येके । तन्मते अलते इत्याद्यपि । 'ञि फला (५१६) विशरणे' । 'तॄफल-' (सू २३०१) इत्येत्वम् । फेलतुः फेलुः । अफालीत् । 'मील ५१७ श्मील ५१८ स्मील ५१९ क्ष्मील ५२० निमेषणे' । निमेषणं सङ्कोचः । द्वितीयस्तालव्यादिः । तृतीयो दन्त्यादिः । 'पील ५२१ प्रतिष्टम्भे' प्रतिष्टम्भो रोधनम् । 'णील ५२२ वर्णे' । निनील । 'शील ५२३ समाधौ' । शीलति । 'कील ५२४ बन्धने' । 'कूल ५२५ आवरणे' । 'शूल ५२६ रुजायां सङ्घोषे च' । 'तूल ५२७ निष्कर्षे' । निष्कर्षो निष्कोषणम् । तच्चान्तर्गतस्य बहिर्निस्सारणम् । तुतूल । 'पूल ५२८ सङ्घाते' । मूल ५२९ प्रतिष्ठायाम् । 'फल ५३० निष्पत्तौ' । फेलतुः । फेलुः । 'चुल्ल ५३१ भावकरणे' । भावकरणमभिप्रायाविष्कारः । 'फुल्ल ५३२ वकसने' । 'चिल्ल ५३३ शैथिल्ये भावकरणे च' । 'तिल ५३४ गतौ' । तेलति । 'तिल्ल' इत्येके । तिल्लति । 'वेलृ ५३५ चेलृ ५३६ केलृ ५३७ खेलृ ५३८ क्ष्वेलृ ५३९ वेल्ल ५४० चलने' । पञ्च ॠदितः । षष्ठो लोपधः । 'पेलृ ५४१ फेलृ ५४२ शेलृ ५४३ गतौ' । 'षेलृ' इत्येके । 'स्खल ५४४ सञ्चलने' । चस्खाल । अस्खालीत् । 'खल ५४५ सञ्चये' । 'गल ५४६ अदने' । गलति । अगालीत् । 'षल ५४७ गतौ' । सलति । 'दल ५४८ विशरणे' । 'श्वल ५४९ श्वल्ल ५५०


अत इति व्यधिकरणषष्ठ्यन्तम् अन्तस्येत्यत्रान्वेति । अन्तशब्दः समीपवर्तिवाची । तथाच अतः समीपवर्तिनो ल्रस्येति लभ्यते । ल्रस्येत्यङ्गविशेषणत्वात्तदन्तविधिः । ततश्च अत्समीपवर्तिरेफलकारान्तस्य अङ्गस्य सिचि वृद्धिरिति लभ्यते । अत इत्यावृत्त वृद्धौ स्थानित्वेनान्वेति । तदाह । अतस्समीपावित्यादिना ॥ अतः समीप इति किम् । अखोरीत् । अमीलत् । ल्रान्तस्येति किम् । मा भवानतीत् । अतो वृद्धिरित्युक्त्वा अतः समीपावित्यनुक्तौ तु अवभ्रीत् अश्वल्लीदित्यत्रातिव्याप्तिः । अत्र अङ्गस्यान्तौ रेफलकारौ नात समीपाविति न वृद्धिः । नचात्र अतः भकारेण लकारेण च व्यवहितत्वादेव न वृद्धिः । आलीदित्यादौ एकव्यवधाने चरितार्थत्वादिति वाच्यम् । सिचि परे यदङ्गन्तदकारस्य वृद्धिरित्यर्थाश्रयणे अतिव्याप्तिवारणार्थत्वात् । ञि फलेति ॥ विदारण शिथिलीभाव । 'आदिर्ञिटुडव' इति ञिरित् । 'ञीतः क्तः' इति प्रयोजनम् । 'आदितश्च' इति इड्विकल्पार्थमादित्वम् । लिण्णिमित्तादेशादित्वादप्राप्ते आह । तॄफलेति । मील श्मीलेति ॥ निमेषण नेत्रसङ्कोचः । सङ्कोच इति पाठेऽप्ययमेवार्थः । नीलवर्ण इति ॥ वर्णक्रियायामित्यर्थः । फल निष्पत्ताविति ॥ ञि फलेति पूर्व पठितम् । अनु-