पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
९९
बालमनोरमा ।

'शल ४९० चलनसंवरणयोः' । 'वल ४९१ वल्ल ४९२ संवरणे सञ्चारणे च' । ववले । ववल्ले । 'मल ४९३ मल्ल ४९४ धारणे' । मेले ममल्ले । 'भल ४९५ भल्ल ४९६ परिभाषणहिंसादानेषु' । बभले । बभल्ले । 'कल ४९७ शब्दसङ्ख्यानयोः' । कलते । चकले । 'कल्ल ४९८ अव्यक्ते शब्दे' । कल्लते । 'अशब्दे' इति स्वामी । अशब्दस्तूष्णींभाव इति च । 'तेवृ ४९९ देवृ ५०० देवने' । तितेवे । दिदेवे । 'षेवृ ५०१ गेवृ ५०२ ग्लेवृ ५०३ पेवृ ५०४ मेवृ ५०५ म्लेवृ ५०६ सेवने' । 'परिनिविभ्यः-' (सू २२७५) इति षत्वम् । परिषेवते । सिषेवे । अयं सोपदेशोऽपीति न्यासकारादयः । तद्भाष्यविरुद्धम् । गेवते । जिगेवे । जिग्लेवे । पिपेवे । मेवते । म्लेवते । 'शेवृ' 'खेवृ' 'क्लेवृ' इत्यप्येके । 'रेवृ ५०७ प्लवगतौ' । प्लवगतिः प्लुतगतिः । रेवते ।

अथावत्यन्ताः परस्मैपदिनः । 'मव्य ५०८ बन्धने' । 'मव्य ५०८ बन्धने' । ममव्य । सूर्क्ष्य ५०९ ईर्क्ष्य ५१० ईर्ष्य ५११ ईर्ष्यार्थाः' । 'हय ५१२ गतौ' । अहयीत् । यान्तत्वान्न वृद्धिः । 'शुच्य ५१३ अभिषवे । अवयवानां शिथिलीकरणं सुरायाः सन्धानं वा अभिषवः । स्नानं च । शुशुच्य । 'चुच्य' इत्येके । 'हर्य ५१४ गतिकान्त्योः' । जहर्य । 'अल ५१५ भूषणपर्याप्तिवारणेषु' । अलति । आल ।

२३३० । अतो ल्रान्तस्य । (७-२-२)

'ल्र' इति लुप्तषष्ठीकम् । अतः समीपौ यौ ल्रौ तदन्तस्याङ्गस्यातो वृद्धिः स्यात्परस्मैपदपरे सिचि । 'नेटि' (सू २२६८) इति निषेधस्य 'अतो


शलचलेल्यारभ्य तेवृ इत्यतः प्राक् लान्ता । तेवृ इत्यारभ्य रेवत्यन्ता वकारान्ताः । षेवृधातोः षोपदेशत्वात्सत्वे सेवत इत्यादि रूपम् । परिषेवत इत्यत्र 'सात्पदाद्योः' इति निषेधे प्राप्ते आह । परिनिविभ्य इति । सिषेवे इति ॥ आदेशसकारत्वात् षत्वमिति भावः । अयं सोपदेशोऽपीति ॥ षेवृधातुरित्यर्थः । तद्भाष्यविरुद्धमिति ॥ सेक् सृप् सृ स्तृ सृजस्तॄस्त्यातामेव भाष्ये षोपदेशपर्युदासादिति भावः । रेवृ प्लवगताविति ॥ प्लवेति न धात्वन्तरमिति सूचयन्नाह । प्लवगतिः प्लुतगतिरिति ॥ अयपयेत्यादिरेवत्यन्ता गताः । अवत्यन्ता इति ॥ अव रक्षणे इत्येतत्पर्यन्ता इत्यर्थः । मव्येत्यारभ्य अल भूषणेत्यतः प्राक् यकारान्ता. । अल भूषणेत्यारभ्य खोरृ प्रतीघात इत्यतः प्राक् लकारान्ताः । अतोल्रान्तस्य ॥ 'सिचि वृद्धिः परस्मैपदेषु' इत्यनुवृत्तम् । अङ्गस्येत्यधिकृतम् । तद्विशेषणत्वात्तदन्तविधिनैव सिद्धे अन्तग्रहण व्यर्थम् । तत्राह । ल्रेतिलुप्तषष्ठीकमिति ॥ ल्र अन्तस्य इति छेद । लृ च रश्चेति समाहारद्वन्द्वात् षष्ठ्येकवचन लुप्तम् । ल्रस्यान्तस्येति सामानाधिकरण्येनान्वयः ।