पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९८
[भ्वादि
सिध्दान्तकौमुदीसहिता

४८१ दानगतिरक्षणहिंसादानेषु' । आदानं ग्रहणम् । दयाञ्चक्रे । 'रय ४८२ गतौ' । 'ऊयी ४८३ तन्तुसन्ताने' । ऊयाञ्चक्रे । 'पूयी ४८४ विशरणे दुर्गन्धे च' । पूयते । पुपूये । 'क्नूयी ४८५ शब्दे उन्दने च' । चुक्नूये । 'क्ष्मायी ४८६ विधूनने' । चक्ष्माये । 'स्फायी ४८७ ओ प्यायी ४८८ वृद्धौ' । स्फायते । पस्फाये । प्यायते ।

२३२७ । लिङ्यङोश्च । (६-१-२९)

लिटि यङि च प्यायः पीभावः स्यात् । पुन:प्रसङ्गविज्ञानात् पीशब्दस्य द्वित्वम् । 'एरनेकाचः-' (सू २७२) इति यण् । पिप्ये । पिप्याते । पिप्यिरे ।

२३२८ । दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् । (३-१-६१)

एभ्यश्च्लेश्चिण्वा स्यादेकवचने तशब्दे परे ।

२३२९ । चिणो लुक् । (६-४-१०४)

चिणः परस्य तशब्दस्य लुक्स्यात् । अप्यायि-अप्ययिष्ट । 'तायृ ४८९ सन्तानपालनयोः' । सन्तान: प्रबन्धः । तायते । तताये । अतायि-अतायिष्ट ।


इदन्तु भाष्ये न दृश्यते । वादित्वादिति ॥ वयधातोर्लिटि वादित्वादेत्वाभ्यासलोपयोरभावे सति ववये इति रूपमित्यर्थः । णयधातुर्णोपदेश इति मत्वा आह । प्रणयत इति ॥ उपसर्गादसमासेऽपीति णत्वमिति भावः । दयाञ्चक्र इति ॥ 'दयायासश्च' इत्याम् । ऊयाञ्चक्र इति ॥ इजादित्वादाम् । उन्दने चेति ॥ क्लेदने चेत्यर्थः । स्फायी ओ प्यायीति ॥ ओदित्त्व 'ओदितश्च' इति निष्ठानत्वार्थम् । ईदित्वन्तु श्वीदितो निष्ठायामिति इड्विकल्पार्थम् । लिङ्यङोश्च ॥ लिट्च यङ्चेति द्वन्द्वात्सप्तमी । 'प्यायः पी' इति सूत्रमनुवर्तते । तदाह । लिटि यङि चेति ॥ ननु प्यायेर्लिटि द्वित्व बाधित्वा परत्वात् पीभावे 'द्वित्वे एरनेकाच' इति यणि पिप्ये इति रूपमिष्यते । तत्र द्वित्वम्बाधित्वा परत्वात् पीभावे कृते पुनर्द्वित्वं न सम्भवति । 'विप्रतिषेधे यद्बाधित तद्बाधितमेव' इति न्यायादित्यत आह । पुनःप्रसङ्गेति ॥ 'पुनःप्रसङ्गविज्ञानात् सिद्धम्' इति परिभाषा । विप्रतिषेधे बाधितस्यापि पुनःप्रवृत्तेरभ्युपगमात्कृतेऽपि पीभावे द्वित्वादिक सिद्धमिति तदर्थं । दीपजन ॥ 'च्लेः सिच्' इत्यतः च्लेरिति, 'चिण् ते पदः' इत्यस्मात् चिण् ते इति चानुवर्तते । तदाह । एभ्यश्च्लेरिति । एकवचन इति ॥ दीपादीनामात्मनेपदित्वेन तेभ्यस्तशब्दस्य एकवचनत्वनियमादिति भावः । चिणो लुक् ॥ चिण इति पञ्चमी । तदाह । चिणः परस्येति ॥ चिणः परश्च अर्थात् तशब्द एव भवति । चिणभावे च्ले. सिचि रूपमाह । अप्यायिष्टेति । तायृ सन्तान इति ॥ 'लुङि दीपजन' इति च्लेश्चिणि तलोपे रूपमाह । अतायीति ॥ चिणभावे सिचि अतायिष्टेति रूपम् ।