पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
९७
बालमनोरमा ।


'दय' 'अय' 'आस्' एभ्य आम् स्याल्लिटि । अयाञ्चक्रे । अयिता । अयिषीष्ट ।

२३२५ । विभाषेटः । (८-३-७९)

इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा मूर्धन्यः स्यात् । अयिषीढ्वम्-अयिषीध्वम् । आयिष्ट । आयिढ्वम्-आयिध्वम् ।

२३२६ । उपसर्गस्यायतौ । (८-२-१९)

अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात् । प्लायते—पलायते । नि स्दुसो रुत्वस्यासिद्धत्वान्न लत्वम् । निरयते । दुरयते । निर्दुरोस्तु निलयते । दुलयते । 'प्रत्ययः' इति त्विणो रूपम् । अथ कथम् 'उदयति विततोर्ध्वरश्मिरज्जौ' इति माघः । 'इट' 'किट' 'कटी' इत्यत्र प्रश्लिष्टस्य एर्भविष्यति । यद्वा 'अनुदात्तेत्वलक्षणमात्मनेपदमनित्यम् (प ९७) । चक्षिङो ङित्करणाज्ज्ञापकात् । वादित्वात् ववये । पेये । मेये । चेये । तेये । प्रणयते । नेये । 'दय


प्रत्ययादित्यतः आम् लिटीत्यनुवर्तते । तदाह । एभ्य आम् स्याल्लिटि इति । विभाषेटः । 'इण. षीध्व लुङ् लिटान्ध' इत्यनुवर्तते । अपदान्तस्येत्यतो मूर्धन्य इति च । तदाह । इणः परो य इडित्यादि ॥ इण्णन्तादङ्गादित्यर्थः । अयिषीढ्वमिति ॥ आशीर्लिङो ध्वमः सीयुट् । यलोप । आर्धधातुकत्वान्न सलोप.। इट् । यकारादिणः परो य इट् ततः परत्वात् धस्य मूर्धन्यो ढ । इट परभक्तत्वाद्यकारान्तादङ्गात् परस्य इषीध्वमः इण्णन्तादङ्गात्परत्वान्नित्ये प्राप्ते विकल्पोऽयम् । आयिढ्वमिति ॥ लुङो ध्वमि च्लेः सिचि आटि वृद्धौ सिच इटि धि चेति सलोपः । ध्वम इवर्णान्तादङ्गात्परत्वान्नित्ये प्राप्ते विकल्पः । अङ्गादिति निवृत्तमिति केचित् । उपसर्गस्यायतौ ॥ अयताविति श्तिपा निर्देशः । 'कृपोरोल' इत्यत रोल इत्यनुवर्तते । तदाह । अयतिपरस्येत्यादिना । प्लायत इति ॥ प्र इत्युपसर्गः । पलायत इति ॥ परा इत्याकारान्त उपसर्गः । ननु निरयते दुरयत इत्यत्रापि लत्व स्यादित्यत आह । निस् दुसोरिति ॥ तर्हि निलयते दुलयत इति कथमित्यत आह । निर्दुरोस्त्विति ॥ एतदर्थमेव प्रादिषु सान्तयोरेफान्तयोश्च निर्देश इति भावः । तर्हि प्रत्यय इत्यत्रापि प्रतेरयतिपरत्वात् रस्य लत्व स्यादित्यत आह । प्रत्यय इति त्विति ॥ प्रतिपूर्वकादिण्धातोरच्प्रत्यये प्रत्यय इति रूपम् । अयतिपरत्वाभावान्नलत्वमित्यर्थः । अयधातुमादाय प्लत्यय इति न । अनभिधानादिति कैयटः । कथमुदयतीति ॥ उत्पूर्वकादयधातोः शत्रन्तात्सप्तम्यन्तमिति मत्वा आक्षेपः । अनुदात्तेत्वेन लटश्शानच्प्रसङ्गादिति भावः । प्राश्लिष्टस्येति ॥ इधातोरिति शेषः । तस्य अनुदात्तेत्त्वाभावाच्छतृप्रत्ययो निर्बाध इति भावः । ज्ञापकादिति ॥ चक्षिड्धातौ इकारस्य अनुदात्ततया अनुदात्तेत्त्वादेव आत्मनेपदसिद्धौ डित्करण अनुदात्तेत्त्वप्रयुक्तात्मनेपदस्य अनित्यतां ज्ञापयति । तस्य अनित्यत्वेतु नित्यात्मनेपदार्थ डित्करणमर्थवदिति भावः ।