२३२१ । वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः । (३-१-७०)
एभ्यः श्यन्वा स्यात्कर्त्रर्थे सार्वधातुके परे ।
२३२२ । क्रमः परस्मैपदेषु । (७-३-७६)
क्रमेर्दीर्घः स्यात्परस्मैपदे परे शिति । क्राम्यति-क्रामति । चक्राम । क्राम्यतु-क्रामतु ।
२३२३ । स्नुक्रमोरनात्मनेपदनिमित्ते । (७-२-३६)
अत्रैवेट् । अक्रमीत् ।
अथ रेवत्यन्ता अनुदात्तेतः | 'अय ४७४ वय ४७५ पय ४७६ मय ४७७ चय ४७८ तय ४७९ णय ४८० गतौ' । अयते ।
२३२४ । दयायासश्च । (३-१-३७)
र्थम् । वा भ्राशेति ॥ दिवादिभ्यश्श्यनित्यत श्यन्निति, कर्तरिशबित्यतः कर्त्तरीति, सार्वधातुके यगित्यतः सार्वधातुक इति, चानुवर्त्तते । तदाह । एभ्यः श्यन्वेत्यादि ॥ क्रम इति । दीर्घ स्यादिति ॥ शमामष्टानामित्यतः तदनुवृत्तेरिति भावः । शितीति ॥ ष्ठिवुक्लम्वाचमामित्यत स्तदनुवृत्तेरिति भावः । क्रामत्विति ॥ मध्यमपुरुषैकवचने क्रामेत्यत्र तु क्रमः परस्मैपदेष्विति दीर्घो भवत्येव । नच दीर्घस्याङ्गाधिकारस्थत्वात् नलुमतेति निषेधः शङ्क्यः । लुमता लुप्ते प्रत्यये यदङ्ग तस्य कार्य एव तस्य प्रवृत्तेः । शितिपरतः क्रमेरङ्गस्य दीर्घस्तु न लुप्तप्रत्यये परस्मैपदे परे अङ्गस्य कार्यम् किन्तु शिति परे अङ्गस्य कार्यमिति बोध्यम् । स्नुक्रमोरिति ॥ पञ्चम्यर्थे षष्ठी आत्मनेपदनिमित्तस्याभावः अनात्मनेपदनिमित्तम् । अर्थाभावे अव्ययीभावेन सह नञ्तत्पुरुषो विकल्पत इत्युक्त्तेः समासः । आत्मनेपदनिमित्ताभावे सति स्नुक्रम्भ्यां परस्य वलाद्यार्धधातुकस्य इट् स्यादित्यर्थः । स्नुक्रमोरनुदात्तोपदेशानन्तर्भावादिति सिद्धे वचनमिदं नियमार्थमित्याह । अत्रैवेडिति ॥ एवञ्च भावकर्मलकारेषु इण्ण भवति । उपस्रोष्यते जलेन । भावलकारोऽयम् । उपक्रम्यते । कर्मणि लट । यक् । प्रस्तुतमित्यत्र तु श्र्युकः कितीति निषेधान्नेट् । आर्धधातुकस्येड्लादेरिति इड्विधेः पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यात् । स्नुक्रमोरनात्मनेपद इति तु न सूत्रितम् । आत्मनेपदाभिन्ने परस्मैपदे परे इत्यर्थे विक्रमिष्यतीत्यसिद्धेः । स्येन व्यवधानात् । आत्मनेपदे परे नेडित्यर्थे तु प्रचिक्रसिष्यत इत्यसिद्धिः । अतो निमित्तग्रहणमित्यलम् । अक्रमीदिति ॥ ह्यन्तेति न वृद्धिः । इति क्रम्यन्ताः परस्मैपदिनो गताः । रेवत्यन्ता इति ॥ रेवृ प्लवगतावित्येतत्पर्यन्ता इत्यर्थः । अयपयेत्यारभ्य शलचलने इत्यतः प्राक् यकारान्ताः । दयायासश्चेति ॥ दय अय् आस् एषा समाहारद्वन्द्वात्पञ्चम्येकवचनम् । कास