सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
८९
बालमनोरमा ।

२३१२ । णिश्रिद्रुस्रुभ्यः कर्तरि चङ् । (३-१-४८)

ण्यन्तात् श्र्यादिभ्यश्च च्लेश्चङ्स्यात्कर्त्रर्थे लुङि परे । 'अकाम्' 'इ' 'अत' इति स्थिते ।

२३१३ । णेरनिटि । (६-४-५१)

अनिडादावार्धधातुके परे णेर्लोपः स्यात् । परत्वात् 'एरनेकाचः-' (२७२) इति यणि प्राप्ते ।

'ण्यल्लोपावियड्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन ।'

इति वार्तिकम् । णिलोपस्य तु पाचयतेः पाक्तिरित्यादि क्तिजन्तमवकाश इति भावः । वस्तुतस्तु 'अनिटि' इति वचनसामर्थ्यादार्धधातुकमात्रमस्य वि-


तादेशे च्लेः सिजादेशे प्राप्ते । णिश्रीति ॥ णि श्रि द्रु स्रु एषा द्वन्द्व । प्रत्ययग्रहणपरिभाषया णीति तदन्तस्य ग्रहणम् । च्लिलुडीत्यतो लुडीति, च्लेः सिजित्यतः च्लेरिति चानुवर्तते । तदाह । ण्यन्तादित्यादिना ॥ चडावितौ । णेरनिटीति ॥ आर्धधातुक इत्यधिकृतम् । अतो लोप इत्यस्मात् लोप इत्यनुवर्तते । अनिटीत्यस्य आर्धधातुकविशेणत्वात् तदादिविधिः । तदाह । अनिडादाविति ॥ तथाच णिलोपे काम् अ त इति स्थिते । परत्वादिति ॥ एरनेकाच इत्यस्य णेरनिटीत्यपेक्षया परत्वाण्णिलोप बाधित्वा यणि प्राप्ते सतीत्यर्थः । कृते तु यणि लोपो दुर्लभः णेरभावात् । स्थानिवत्त्वेऽपि यणा बाधितस्य पुनरुन्मेषो दुर्लभः । वस्तुतस्तु स्थानिवत्त्वमेवेह दुर्लभम् । यण्स्थानिनमिकारं अल्धर्मणित्वरूपेणाश्रित्य प्रवर्तमानस्य णिलोपस्याल्विधित्वेन तत्र स्थानिवत्त्वासम्भवात् । स्पष्टा चेयं रीतिः भोभगो इति सूत्रभाष्ये इति शब्देन्दुशेखरे विस्तरः । ण्यल्लोपाविति ॥ णिलोपः इयड्यण्गुणवृद्धिदीर्घाः एभ्यः, अल्लोपस्तु वृद्धिदीर्घाभ्यां पूर्वविप्रतिषेधेनेति विवेकः । तथा च पूर्वविप्रतिषेधादिह यणं बाधित्वा णिलोपो भवतीति स्थितम् । ननु अततक्षत्, आटिटत्, कारणा, कारकः, कार्यते, इति वक्ष्यमाणेषु वार्त्तिकोदाहरणेषु क्रमेण इयड् यण् गुण वृद्धिदीर्घाणामवश्यं प्राप्तेर्णिलोपस्य निरवकाशत्वादेव इयडादिबाधकत्वसम्भवादिदं वार्त्तिकं व्यर्थम् । सुधियौ, प्रध्यौ, कर्ता, चकार, इत्यादौ इयड्यण्गुणवृद्धिदीर्घणां सावकाशत्वादित्यत आह । णिलोपस्यत्विति ॥ पचधातोर्णिचि उपधावृद्धौ, पाचि इति ण्यन्तात्, स्त्रियां क्तिनिति क्तिनि, तितुत्रतथसिसुसरकसेषु च इति इण्णिषेधे णेरनिटीति णिलोपे कुत्वे पाक्तिरिति स्थितिः । क्तिजन्तमिति पाठेतु, क्तिच् क्तौच संज्ञायामिति बोध्द्यः । पाक्तिरिति कस्यचित्संज्ञा । अत्र इयडादीनां अप्रसक्ते र्णिलोपस्यापि सावकाशत्व तुल्यम् । तत्र अततक्षदित्यादौ परत्वादियडादिप्राप्तौ तन्निवृत्त्यर्थ वार्त्तिकमिदमारम्भणीयमिति भावः । वार्त्तिक व्यर्थमेवेत्याह । वस्तुतस्त्विति । आर्धधातुकमात्रमिति ॥ कृत्स्नमनिडाद्यार्धधातुकमस्य णिलोपस्य विषय इत्यर्थः । तथाहि । अततक्षदित्यादौ परानपि इयडादीन् णिलोपः अपवादत्वात् बाधते । परापेक्षया अपवादस्य प्रबलत्वात् ।