षयः । तथाचेयङादेरपवाद एवायम् । इयङ् । अततक्षत् । यण् । आटिटत् । गुणः । कारणा । वृद्धिः । कारकः । दीर्घः । कार्यते ।
२३१४ । णौ चङ्युपधाया ह्रस्वः । (७-४-१)
चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः स्यात् ।
२३१५ । चङि । (६-१-११)
चङि परेऽनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्तोऽजादेस्तु द्वितीयस्य ।
परत्वादियडादीनां णिलोपबाधकत्वाभ्युपगमे हि णेरनिटीत्यत्र अनिटीति व्यर्थम् । कारयितेत्यादाविडाद्यार्धधातुके गुणेनैव णिलोपस्य बाधसिद्धेः । ततश्च अनिटीति वचनसामर्थ्यादनिडादावार्धधातुके सर्वस्मिन्परे णिलोप इति विज्ञायते । एवञ्च अततक्षदित्यादावियडादिप्रवृत्तियोग्येऽप्यार्धधातुके सर्वत्र णिलोप इत्यस्य निरवकाशत्वादपवादत्वादेव णिलोपेन इयडादिबाधसिद्धेर्वार्त्तिकमिदं व्यर्थमिति भावः । अपवाद एवायमिति ॥ णिलोप इत्यर्थः । अतो लोपस्तु चिकीर्षक इत्यत्र वृद्धिं, चिकीर्ष्यादित्यत्र अकृत्सार्वधातुकयोरिति दीर्घञ्च, बाधित्वा पूर्वविप्रतिषेधाद्भवति । नह्यतो लोपो वृद्धिदीर्घयोरपवादः । गोपायितेत्यादौ वृद्धिदीर्घयोरप्राप्तयोरप्यतो----स्मादित्यलम् । इयङिति ॥ उदाहरणसूचनमिदम् । अततक्षदिति ॥ तक्षधातोर्ण्यन्ताल्लुडस्तिपि इकारलोपे चडि द्वित्वे सयोगपूर्वकत्वादेरनेकाच इति यणभावे इयडि प्राप्ते पूर्वविप्रतिषेधात् णिलोपे हलादिशेषे अडागमे अततक्षदिति रूपम् । यणित्युदाहरणसूचनम् । आटिटदिति ॥ अटधातोर्ण्यन्तात् आटि इत्यस्मात् लुङि तिपि इकारलोपे चङि टि इत्यस्य द्वित्वे एरनेकाच इति यणं बाधित्वा पूर्वविप्रतिषेधाण्णिलोपे आटि वृद्धौ रूपम् । गुण इत्युदाहरणसूचनम् । कारणेति ॥ स्त्रियामित्यधिकारे कृञ्धातोर्ण्यन्तात् कारि इत्यस्मात् ण्यासश्रन्थोयुजिति युचि अनादेशे सार्वधातुकार्धधातुकयोरिति गुणं बाधित्वा पूर्वविप्रतिषेधाण्णिलोपे स्त्रीत्वाट्टापि कारणेति रूपम् । वृद्धिरित्युदाहरणसूचनम् । कारक इति ॥ कृञ्धातोर्ण्यन्तात्कारि इत्यस्माण्ण्वुलि अकादेशे वृद्धि बाधित्वा पूर्वविप्रतिषेधाण्णिलोपे रूपम् । दीर्घ इत्युदाहरणसूचनम् । का--- इति ॥ कृञ्धातोर्ण्यन्तात्कारि इत्यस्मात् कर्मणि लटि यकि अकृत्सार्वधातुकयोरिति दीर्घं बाधित्वा पूर्वविप्रतिषेधाण्णिलोपः । तथाच प्रकृते काम् इ अ त इत्यत्र एरनेकाच इति यणं बाधित्वा णिलोपे काम् अ त इति स्थितम् । णौचङीति ॥ अङ्गाधिकारादाह । यदंगमिति ॥ उपधायाः किम् । अचकांक्षत् । चङि किम् । कारयति । णौ किम् । चड्युपधायाह्रस्व इत्युच्यमाने अदीदपदित्यत्र दाधातोः ण्यन्तात् लुङि चङि दा इ अ त् इति स्थिते आकारस्य ह्रस्वे सति पुक् न स्यात् । णावित्युक्तौ तु आकारस्य णौ परत उपधात्वाभावान्न ह्रस्वः । तथाच प्रकृते कम् अ त इति स्थितम् । चङीति ॥ एकाचो द्वे प्रथमस्येति अजादेर्द्वितीयस्येति चाधिकृतम् । लिटिधातोरनभ्यासस्येति सूत्र लिटि इति वर्जमनुवर्तते । तदाह । चङि पर इत्यादिना ॥ द्विर्वचनेऽचीति निषेधस्तु न शङ्क्यः । द्वित्वनिमित्तचङः उपधया व्यवहितत्वात् ।