२३०९ । म्वोश्च । (८-२-६५)
मान्तस्य धातोर्मस्य नकारादेशः स्यान्मकारे वकारे च परे । णत्वम् । चक्षमिवहे-चक्षण्वहे । चक्षमिमहे-चक्षण्महे । क्षमिष्यते-क्षंस्यते । क्षमेत । आशिषि, क्षमिषीष्ट-क्षंसीष्ट । अक्षमिष्ट-अक्षंस्त । 'कमु ४४३ कान्तौ' । कान्तिरिच्छा ।
२३१० । कमेर्णिङ् । (३-१-३०)
स्वार्थे । ङित्वात्तङ् । कामयते ।
२३११ । अयामन्ताल्वाय्येत्न्विष्णुषु । (६-४-५५)
'आम्' 'अन्त' 'आलु' 'आय्य' 'इत्नु' 'इष्णु' एषु णेरयादेशः स्यात् । वक्ष्यमाणलोपापवादः । कामयाञ्चक्रे । 'आयादय आर्धधातुके वा' (२३०५) । चकमे । कामयिता-कमिता । कामयिष्यते-कमिष्यते ।
रिडभावपक्षे विशेषमाह । म्वोश्चेति ॥ मोनोधातोरित्यनुवर्तते । तदाह । मान्तस्येति । णत्त्वमिति ॥ षात्परत्वात् अट्कुप्वाङिति नकारस्य णत्वमित्यर्थः । कमु कान्ताविति ॥ उदितोवेति क्त्वाया इड्विकल्पार्थमुदित्वम् । कान्तिशब्दस्य प्रभापरत्वभ्रमं वारयति । कान्तिरिच्छेति ॥ स्वर्गकाम इत्यादौ कमेरिच्छायां प्रयोगबाहुल्यदर्शनादिति भावः । कामोऽभिलाषस्तर्षश्चेत्यमर । कमेर्णिङिति ॥ शेषपूरणेन सूत्र व्याचष्टे । स्वार्थे इति ॥ अर्थविशेषानिर्देशादिति भावः । णडावितौ । आयादय आर्धधातुके वेत्यत्र णिचो ग्रहणव्यावृत्तये डित्करणम् । ङित्वात्तङिति ॥ नत्वनुदात्तेत्त्वात्तड् । शब्दपरविप्रतिषेधादिति भावः । कामयत इति ॥ णिडि अत उपधाया इति वृद्धौ कामि इति णिडन्तम् । किडिति चेति निषेधस्तु न । अनिग्लक्षणत्वात् । णिडन्तस्य धातुत्वात् लडादयः । तत्र लटि शपि गुणे अयादेशे कामयत इति रूपम् । कामयेते इत्यादि सुगमम् । लिटि कास्यनेकाच इत्यामि आम इति लिटो लोपे, कामि आम् इति स्थिते, सार्वधातुकेति गुणम्बाधित्वा णेरनिटि इति वक्ष्यमाणे णिलोपे प्राप्ते । अयामन्तेति ॥ अय् इति छेदः । णेरनिटीत्यतो णेरित्यनुवर्तते । तदाह । णेरयादेशः स्यादिति ॥ तथा च कामयामित्यामन्तं स्थितम् । ततः कृञ्चानुप्रयुज्यत इत्यनुप्रयोगाल्लिडिति मत्वाऽऽह । कामयाञ्चक्र इति ॥ णिड आयादिष्वन्तर्भावाल्लिडादावार्धधातुके तद्विकल्पमुक्त स्मारयति । आयादय इति । चकम इति ॥ सेट्कोऽयम् । चकमिषे । चकमिध्वे । चकमिवहे । चकमिमहे । कामयितेति ॥ लुटि णिड्पक्षे तासि इटि वृद्धौ गुणे अयादेशे रूपम् । कमिता । कामयिष्यते । कामयताम् । अकामयत । कामयेत । कामयिषीष्ट । अथ णिङन्तात् कामि इत्यस्माल्लुडः