पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१

स्थूलेति निखिल-ग्राह्याधार-ग्राह्यस्वरूपापि पदार्थान्तरै-
र्भ्राम्यमाणा इव तद्रूपा वर्तते सा कुण्डलिनी साकार-
स्थूला पुनस्त्वियमेव स्व-प्रसार-चातुर्यतया वर्तमाना योगिनां
परानन्दतया कुण्डलिनी या निश्चयभूता वर्तते सा सूक्ष्मा
निराकारा प्रबुद्धा महासिद्धानां मते प्रसिद्धा ॥ २१॥

उक्तं तत्वसारे :

सृष्टिः कुण्डलिनी ख्याता द्विधा भावगता तु सा ।
एकधा स्थूलरूपा च लोकानां प्रत्यया(गा)त्मिका ॥ २२ ॥
अपरा सर्वगा सूक्ष्मा व्याप्तिव्यापक​-वर्जिता ।
तस्या भेदं न जानाति मोहितः प्रत्ययेन तु ॥ २३॥
तस्मात्सूक्ष्मा परा संवित्स्वरूपा मध्याशक्तिः कुण्डलिनी
योगिभिर्देह - सिद्ध्यत​ सद्गुरु-मुखाज्ज्ञात्वा स्व-स्वरूप-दशायां
प्रबोधनीया ॥ २४॥

अथ ऊर्ध्व-शक्तिनिपातः कथ्यते ।

सर्वेषां तत्वानामुपरि-वर्तमानत्वान्निर्नाम
परमं पदमेव ऊर्ध्वं प्रसिद्धं तस्याः
स्व-संवेदन-नाना साक्षात्कारसूचनशीला या ऊर्ध्वं-
शक्तिरभिधीयते । तस्याः निपातनमिति स्व-स्वरूप-द्विधा-
भास-निरासः किन्तु स्व-स्वरूपाखण्डत्वेन भवति ॥२५॥

उक्तं च -

शिवस्याभ्यन्तरे शक्तिः शक्तेरभ्यन्तरः शिवः ।
अन्तरं नैव जानीयाञ्चन्द्रचन्द्रिकयोरिव ॥ २६ ॥
अत ऊर्ध्व-शक्ति - निपातेन महासिद्ध - योगिभिः परमपदं
प्राप्यत इति सिद्धम् ॥ २७॥


। ९-चिद्रूपा (ह.), १०-व्याप्य (तं.).