पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०

वर्तते । अतस्ते पिण्डसिद्धाः प्रसिद्धाः । सा कुण्डलिनी प्रबुद्धाऽप्रबुद्धा
चेति द्विधा । अप्रबुद्धेति तत्तत्पिण्डे चेतन-रूपा (स्वभावेन नाना-
चिन्ता-व्यापारोद्यमप्रपंचरूपा) कुटिल-स्वभावा कुण्डलिनी ख्याता ।
सैव​ योगिनां तत्तद्विलसितविकाराणां निवारणोद्यम - स्वरूपा
कुण्डलिन्यूर्ध्व​गामिनी सुप्रसिद्धा भवति ॥ १४ ॥
ऊध्वमिति । सर्व-तत्वान्यपि स्व-स्वरूपमेवेत्यूर्ध्वे वर्तते अतएव
सा विमर्शरूपिणी योगिनः स्व-स्वरूपमवगच्छन्तीति
सुप्रसिद्धा ॥ १५ ॥

तथा चोक्तमेवरूलके :-

ध्यशक्ति -प्रबोधेन अधः-शक्ति-निकुञ्चनात् ।
ऊर्ध्व-शक्ति-निपातेन प्राप्यते परमं पदम् ॥ १६ ॥
एकैव सा मध्योर्ध्वधः -प्रभेदेन त्रिधा भिन्ना शक्तिरभि-
धीयते ।। १७ ॥
बाह्मेन्द्रिय-व्यापार-नाना-चिन्तामया सैवाधः - शक्तिरुच्यते ।
अतएव ये योगिनः तस्या आकुञ्चनं मूला-धार- बन्धनात्
सिद्धं स्यात् । यस्माञ्च चराचरं जगदिदं चिदचिदात्मकं
प्रभवति । तदेव मूलाधारं संवित्प्र​सरं प्रसिद्धम् ।। १८ ।।

उक्तं शिवानन्दाचार्यैः :-

सर्व-शक्ति-प्रसर-संकोचाभ्यां जगत्सृष्टिः
संहृतिश्च भवत्येव न सन्देहः तस्मात्तां मूलमि-
त्युच्यते । अतः प्रायेण सर्वसिद्धाः मूलाधार-रता भवन्ति ॥ १९॥
तरङ्गित-स्वभावं जीवात्मानं वृथा भ्रमन्तमपि स्वप्रकाशमध्ये
स्व-स्वरूपतया सर्वदा धारयितुं समर्था या सा मध्याशक्तिः
कुण्डलिनी गीयते ।
स्थूल-सूक्ष्म-रूपेण महासिद्धान्तं प्रतीयते इति निश्चयः ॥ २० ॥


८-आकुञ्चने रता यस्याकुञ्चन (ह.).