पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९

अकुलमिति । जातिवर्ण-गोत्राद्यखिल-निमित्तत्वेनैकमेवास्तीति
प्रसिद्धं ।
तथा चोक्तमुमामहेश्वरसंवादे:-
निरुत्तरेऽनन्यत्वादखण्डत्वादद्वयत्वादनन्याश्रयत्वाद्
निर्धामत्वादनामन्वादकुलं स्यान्निरुत्तरमिति ॥९॥
एवं कुलाकुल-सामरस्य-प्रकाश-भूमिका-स्फुटीकरणे एकैव समर्था
या साऽपरम्परा शक्तिरेवावशिष्यते । अपरम्परं निखिल-
विश्वप्रपञ्चजालं परं तत्त्वं सम्पादयत्येकीकरोत्य-
पराम्पराशक्तिराशावती प्रसिद्धा । १०॥

उक्तं ललित-स्वच्छन्दे :-

अकुलं कुलमाधत्ते कुलं चाकुलमिच्छति।
जल-बुद्बुदवद्न्न्यायादेकाकारः परः शिवः ॥११ ॥
अतएवैकाकार एवानन्त-शक्तिमान् निजानन्दतयावस्थि-
तोऽपि नानाकारत्वेन विलसन् स्वप्रतिष्ठां स्वयमेव भजतीति
व्यवहारः।

उक्तं प्रत्यभिज्ञायाम्:

अलुप्त-शक्तिमान्नित्यं सर्वाकारतया स्फुरन् ।
पुनः स्वेनैव रूपेण एक एवावशिष्यते ।। १२॥
अतएव परमकारणं परमेश्वरः परात्परः शिवः
स्वरूपतया सर्वतोमुखः सर्वाकारतया स्फुरितुं शक्नोतीत्यतः शक्तिमान्।

उक्तं वामकेश्वरतन्त्रे :-

शिवोऽपि शक्तिरहितः शक्तः कर्तुं न किञ्चन ।
स्वशक्त्या सहितः सोऽपि सर्वस्याभासको भवेत् ॥१३॥
अतएवानन्त -शक्तिमान् परमेश्वरः विश्वसंवित्स्वरूपी विश्वमयो
भवतीति प्रसिद्धं सिद्धानां च परापर-स्वरूपा कुण्डलिनी


५–अनाशनात् (का.),अनाश्रयात् (त.). ६–निरन्तरं (का.). ७–अपराशक्ति (ह.).