पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोपदेशः

अथपिण्डाधारः कथ्यते

अस्ति काचिदपरम्परा संवित्स्वरूपा
सर्वपिण्डाधारत्वेन नित्यप्रबुद्धा निजा शक्तिः
प्रसिद्धा कार्यकारणकतणामुत्थान-दशांकुरोन्मीलनेन
कर्तारं करोति अतएवाधारशक्तिरिति कथ्यते ।
अत्यन्तं निजप्रकाश-स्वसंवेदानुभवैक्यगम्यमान-शास्त्र
लौकिक-साक्षात्कार-साक्षिणी सा पराचिद्रूपिणी
शक्तिगीयते । सैव शक्ति र्यदा सहजेन स्वास्मिन्नुन्मीलिन्यां
निरुत्थानदशायां वर्तते तदा शिवः सैव भवति ॥१॥
अतएव कुलाकुलस्वरूपा सामरस्य-निज-भूमिका निगद्यते ।। २ ।।
कुलमिति । परासत्ताहन्ता-स्फुरत्ता-कलास्व​-
रूपेण सैव पञ्चधा विश्वस्याधारत्वेन तिष्ठति ।।३।।
अतएव परापरा निराभासावभासकात्प्रकाशस्वरूपा या सा परा ।।४।।
अनादि-संसिद्धा परमाद्वैत​-परमेकमेवास्तीति या
अङ्गीकारं करोति सा सत्ता ॥५॥
अनादिनिधनोऽप्रमेय-स्वभावः किरणानन्दोऽस्म्यहमि-
त्यहं-सूचनशीला या सा पराऽहन्ता ॥६॥
स्वानुभव-चित्तचमत्कार -निरुत्थान -दश प्रस्फुटी
करोति या सा स्फुरत्ता ॥ ७ ॥
नित्य-शुद्ध-बुद्ध-स्वरूपस्य स्वयं प्रकाशत्वमाकलयतीति
या सा पराकलेति उच्यते ॥८॥

१-अनन्तराधार (ह.). २–पराचिदूचिणी (ह.). ३-पराभासत्वादहन्ता सत्ता । स्फुरत्ता कुला (यो.). ४-संवित् (तं.).