पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२

उक्तश्च ।

सत्वे सत्वे सकलरचना राजते संविदेका ।
तत्त्वे तत्त्वे परम - महिमा संविदेवावभाति ।। २८ ।। ।
भावे भावे बहुल तरला लम्पटा संविदेषा ।
भासे भासे भजन-चतुरा वृंहिता संविदेव ।। २९॥
किमुक्तं भवति परापर-विमर्शरूपिणी संविन्नाना-शक्ति-
रूपेण निखिल-पिण्डाधारत्वेन वर्तते इति सिद्धान्तः ॥ ३० ॥

।। इति श्रीगोरक्षनाथकृतौ सिद्धसिद्धान्तपद्धतौ

पिण्डाधारो नाम चतुर्थोपदेशः ॥४॥