सामग्री पर जाएँ

पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१

यथा संक्षीयते प्राणो मानसञ्च विलीयते ।
तथा समरसैकत्वं समाधिः सोऽभिधीयते ।। १७७ ॥
इन्द्रियाणि मनोवृत्तिरपरोक्षेपयाहि सः ।
अद्वयत्वं गते जीवे न मनो इन्द्रियाणि च ।। १७८॥
न गन्धो न रसं रूपं न स्पर्शा न च निस्वनः।
नात्मानञ्च परं वेद योगयुक्तः समाधिना ।। १७९॥
अभेद्यः सर्वशास्त्राणां अबाध्यः सर्वदेहिनाम् ।
बाध्यते न च कालेन बाध्यते न च कर्मणा ॥ १८० ॥
साध्यते न च केनापि योगियुक्तः समाधिना ।
अग्राह्यो मन्त्रशास्त्राणां योगियुक्तः समाधिना ।। १८१ ॥
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वन्नावबोधस्य योगो भवति दुःखहा ।। १८२ ॥
निरातङ्कं निरालम्बं निष्प्रपञ्चं निराश्रयम् ।
निरामयं निराकारं तत्त्वं तत्त्वविदो विदुः ॥ १८३ ॥
निर्मलं निश्चलं नित्यं निर्गुणं निष्क्रियं महत् ।
व्योमविज्ञानमानन्दं ब्रह्म ब्रह्मविदो विदुः ।। १८४ ॥
कातु दृष्टान्त निर्मुक्तमनुबन्धेरगोचरम् ।
व्योमविज्ञानमानन्दं ब्रह्म ब्रह्मविदो विदुः ॥ १८५ ॥
दुग्धे क्षीरं घृते सपिर्वह्नौ वह्निरिवार्पितम् ।
अव्ययत्वं व्रजेदेवं योगिलीनः परात्परे ॥ १८६ ॥
भववनजवह्निं मुक्तिसोपानमार्गम् ।
प्रकटितपरमार्थं ग्रन्थगुह्यञ्च गुह्यम् ॥१८७॥
सकृदपि पठतिच मयः शृणोति प्रबद्धम् ।
स भवति भुवि भव्यो भाजनं मुक्तिमुक्तयोः ॥ १८८ ॥

॥ इति श्रीगोरक्षनाथविरचिते योगशास्त्रे योगमार्तण्डं समाप्तम् ।

॥ साम्बसदाशिवार्पणमस्तु ॥