पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९

शोप​णा च भवत्येषा भूतानां पञ्चधारणा ॥ १५४ ॥
कर्णानां मधुरस्सर्वा धारणा पञ्च दुर्लभाः ।
विज्ञाताः सततं येन सर्व पापैः प्रमुच्यते ।।१५५॥
सर्व द्वित्वा समायुक्तं योगिनो हृदि वर्तते ।
यस्तत्त्वे निश्चलं चेतः तदध्यानं च प्रचक्षते ॥ १५६ ॥
द्विधा भवति तद्ध्यानं सगुण निर्गुणं तथा ।
सगुणं वर्णभेदेन निर्गुणं केवलं विदुः ॥१५७॥
अश्वमेधसहस्राणि वाजपेयशतानिच ।
एकस्य ध्यानयोगेन कलां नार्हन्ति षोडशीं ।। १५८॥
अन्तश्चेता बहिश्चक्षुरधिष्टाय सुखासनम् ।
समत्वंच शरीरस्य ध्यानमुद्रेति कीर्तिता ॥ १५९॥
आधारं प्रथमं चक्रं तप्तकाञ्चनसन्निभम्।
नासाग्रे दृष्टिमादाय ध्यात्वा मुञ्चति किल्बिषम् ।। १६० ।।
स्वाधिष्ठानं द्वितीयं च सन्माणिक्यशिखोपमम् ।
नासाग्रे दृष्टिमादाय ध्यात्वा संशोभते जगत् ॥१६१॥
हृदाकाशस्थितं चक्रं प्रचण्डरवितेजनम् ।
नासार्गे दृष्टिमादाय ध्यात्वा ब्रह्ममयो भवेत् ।। १६२॥
सततं कर्णिकामध्ये विशुद्धं चक्रमुच्यते ।
नासाग्रे दृष्टिमादाय ध्यात्वा दुःखात्प्रमुच्यते ॥ १६३॥
स्रवत्पीयूषसम्पूर्णं लम्बिके चन्द्रमण्डलम् ।
नासाग्रे दृष्टिमादाय ध्यात्वा मृत्युं प्रमुञ्चति ॥ १६४॥
भ्रुवोर्मध्ये स्थितं देवं स्निग्धमौक्तिकसन्निभम् ।
नासाग्रे दृष्टिमादाय ध्यात्वानन्दमयं भवेत् ॥१६५॥