सामग्री पर जाएँ

पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८

भ्रूरादिपंचभूतानां धारणा च पृथक् पृथक् ।
मनसो निश्चलत्वेन धारणा च विधीयते ॥१४२॥
यः पृथ्वी हरितालहेमरुधिरातत्वेलकारान्वितम् ।
संयुक्तं कमलासनेन हि चतुःकोणा हरिस्थायिनी ॥ १४३ ॥
प्राणं तत्र विनीय्य पंच घटिकाचित्तान्वितं धारयेत् ।
येषां स्तंभकरी सदा क्षितिजयाकुर्यात्ततो धारणा ॥१४४ ॥
अर्धेन्दुप्रतिमं च कुन्दधवलं कर्णे च तत्त्वस्थितं ।
तत्पीयूषवकारबीजसहितं युक्तं सदा विष्णुना ।। १४५ ।।
प्राणं तत्र विलीय्या पंचघटिकाचित्तान्वितं धारयेत् ।
विषाग्निः सह कालकूट रजिना तद्वारुणी धारणा ।। १४६ ।।
तालौ संस्थितमिन्द्रगोषसदृशं तत्वं त्रिकोणान्वितम्।
तेजो रेफमयं प्रवालरुचिरं रुद्रेण सत्संगतम् ॥१४७ ॥
प्राणं तच्च विलीन पंच घटिका चित्तान्वितं धारणा ॥ १४८॥
तेषां वह्निमसंसलं ज्वलते वैश्वानरी धारणा ।
यद्भिन्नांजनपुंजसन्निभमिदं दृष्ट्वा भ्रुवोरन्तरे ॥१४९॥
तत्त्वं सत्यमयं यकारसहितं यत्रेश्वरो देवता ।
प्राणं तच्च विनीय्य पंचघटिका चित्तान्वितं धारयेत् ॥१५०॥
येषां योगमनं (लं) करोति यमिनां सा वायवी धारणा ।
आकाशं शुचिशुद्ध वा सदृशं यद्ब्र​ह्मरन्ध्रस्थितम् ।। १५१ ॥
तन्मध्ये सदाशिवेन सहितं युक्तं यकाराक्षरम् ।
प्राणं तत्रविलीनपंचघटिका चित्तान्वितं धारयेत् ॥ १५२॥
तेषां मोक्षकवाटभेदनपटुः प्रोक्ता नभोधारणा ।
स्तम्भी निद्रा–चैव दाहिनी भ्रामिणी तथा ॥१५३॥