पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७

बध्वा सोमकलाजलं सुविमलं कर्णस्थलादूर्ध्व​तो ।
नासान्तो सुचिरेण याति गमनद्वारं ततः सर्वतः ॥ १३१ ॥
ऊर्ध्वास्ये भ्रुवसन्निवेश नयने सिक्ताङ्गात्रं पिबेत् ।
एवं यो विजितेन्द्रियमना नवास्ति तस्य क्षयः ॥ १३२॥
ऊर्ध्व​जिव्हास्ततो भूत्वा सोमपानं करोति यः ।
मासार्धे नात्र सन्देहो मृत्युं जयतु योगवित् ।। १३३ ॥
सम्पीड्य रसनाग्रेण राजदण्डैर्बिलं महत्।
ध्यात्वामृऽतमयीं देवीं षण्मासेन कविर्भवेत् ॥ । १३४॥
बध्नंमूर्ध्व​फलं येन तेन विष्णुं निवारितम् ।।
अजरामरमाप्नोति यथा पञ्चमुखो हरः॥ १३५ ॥
आसनेन समायुक्तः प्राणायामेन च संयुतः ।।
प्रत्याहारेण सम्पन्नो धारणं च समभ्यसेत् ॥ १३६ ॥
सर्वद्वाराणि बध्नाति यदूर्ध्वंतु बिलं धृतम् ।।
न मज्जत्यत्यमृतं क्वापि सम्पन्नाः पञ्चधारणाः ॥ १३७ ॥
चुं.......तायद्धि लम्बिकाग्रमनिशं जिह्वा रसस्यन्दिनी ।
स क्षीराकटुकाथदुग्धसदशा मध्वाज्यतुल्योधवो । १३८ ॥
याधिनां हरणं जरान्तकरणं शास्त्रागमो धीरणम् ।
तस्य स्यादमृतत्वमष्टगुणकं सिद्धाङ्गनाकर्षणम् । १३९ ॥
अमृतं पूर्णदेहस्य योगिनो द्वित्रिवत्सरात् ।
ऊर्ध्वं प्रवर्तते तस्य अणिमादिगुणोदयः ॥ १४० ॥
नित्यं सोमकलापूर्णं देही देहं न मुञ्चति ।
आसनेन समायुक्तः प्राणायामेन संयुतः ।
प्रत्याहरणसम्पन्नः धारणं च समभ्यसेत् ॥१४१॥