सामग्री पर जाएँ

पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४

अधमस्याधमो धर्मः कम्पो भवति मध्यमः ।
उत्तमाःस्थाणुमाप्नोति ततो वायुं निरुन्धयेत् ॥ ९५॥
बद्धपद्मासनो योगी नमस्कृत्वा गुरुं शिवम् ।
नासाग्रे दृष्टिमादाय प्राणायामं समभ्यसेत् ॥ ९६ ।।
द्वाराणां नर(व​)कं निरुध्य पवनं जित्वा दृढं धारयेत् ।
नीत्वाकाशमपानवह्निसहितं शक्त्या समुच्चालितम् ।। ९७।।
उर्ध्व​माकृष्य चापानं वायुं प्राणेन योजयेत् ।
अपानेन धत्ते प्राणं सर्वपापैः प्रमुच्यते ॥९८॥
आत्मध्यानयुतं त्वनेन विधिना साभ्यासमूर्ध्वं सुखम् ।
यावत्तिष्ठति तावदेव महता सांख्येन संस्तूयते ।। ९९ ॥
प्राणायामे भवत्येषा पातके घन पावकः ।
भवेद्व्याधिमहासेतुः प्रोच्यते योगिभिस्सदा ।। १०० ।।
आसने मरुतो हन्ति प्राणायामेन पातकम् ।
विकारं मानसं हन्ति प्रत्याहारेण योगवित् ।। १०१ । ।
धारणायां मनोधैर्यं ध्यानादैश्वर्यमद्भुतम् ।
समाधेर्मोक्षमाप्नोति त्यक्त्वा कर्मशुभाशुभम् ।। १०२॥
प्राणायामद्विषट्केन प्रत्याहारः स उच्यते ।
प्रत्याहारद्विषट्केण जायते धारणा शुभा ।। १०३॥
धारणा द्वादश प्रोक्तं ध्यानं ध्यानविशारदैः ।
ध्यानद्वादशकेनैव समाधिरभिधीयते ।। १०४॥
यस्समाधिः परं ज्योतिः सर्वाङ्गं विश्वतोमुखम् ।
तस्माद्ष्टुं क्रिया कार्या यातायातं निपातिते ।। १०५ ।।
संबध्यासनमूलमंघ्रिघटितं कर्णाक्षिनासापुट-
द्वाराण्यङ्गुलिभिर्नियम्य पवनं वक्त्रेण वा पूरितम् ।। १०६॥