पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३

शुद्धीयेत् (द्धमेति) यदा सर्वं नाडिचालं महाजलम् (मलाकुलम्) ।
तथै (दै) व जायते योगी समप्राण निरोधने (प्राणसंग्रहणेक्षमः) ॥८३॥
बद्धः पद्मासन योगी प्राणं चन्द्रेण पूरयेत् ।
धारयित्वा यदाशक्ति पुनः सूर्येण रेचयेत् ॥ ८४॥
अमृतद्रवसंकाशं गोक्षीरधवलोपमम् ।
ध्यात्वा चन्द्रमयं बिम्बं प्राणायामे (मी) मुखो (खी) भवेत् ॥८५॥
प्राणं सूर्येण चाकृष्य पूरयेदुदरं शनैः ।
कुम्भयिन्वा विधानेन पुनश्चन्द्रेण रेचयेत् ।। ८६ ॥
प्रज्वल-ज्वलन-ज्वाला-पुंजमादेत्यमण्डलम्।
ध्यात्वा नाभिस्थितं योगी प्राणायामे सुखी भवेत् ॥ ८७॥
प्राणं चेदिल (ड) यापि प्रवेश्य च तं भूयोन्यया रेचयेत् ।
पीत्वा पिङ्गलया समीरणचयं बध्वा त्यजेद्वामया ॥८८ ॥
सूर्याचन्द्रमसोरनेन विधिना बिम्बद्वयं ध्यायतां ।
शुद्धा नाडिगणा भवन्ति यमिनां मासत्रयादूर्ध्व​जः ।।८९॥
यथेष्टं धारणा वायोरनलस्य प्रदीपनम् ।।
नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ॥ ९० ॥
प्राणो देहे स्थितो वायुरपानस्य निबन्धनम् ।
एकस्य श्वसने मात्रमुद्धारेद्ग​मने गतिः ॥ ९१॥
रेचकः पूरकश्चैव कुम्भकः प्रणवात्मकः ।
प्राणायामो भवेत् त्रेधा मात्रा द्वादश संस्कृताः ॥ ९२॥
मात्रा द्वादशसंयुक्ता दिवाकरनिशाकरौ ।।
दोषजालं विनिघ्नन्तौ ज्ञातव्यो योगिभिस्सदा ॥९३॥
अधमो द्वादश प्रोक्तो मध्यमो द्विगुणः स्मृतः ।
उत्तमस्त्रिगुणः प्रोक्तः प्राणायामस्य निर्णयः ॥९४॥