पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्री ॥

श्रीमद्गोरक्षनाथविरचितः

अमरौघप्रबोधः

ओं नमोऽस्त्वादिनाथाय मीननाथाय वै नमः ।।
नमश्चारङ्गिनाथाय सिद्धबुद्धाय धीमते ॥१॥
लयादिप्रतिपन्नानां कलहोत्सुकचेतसाम् ।
गोरक्षकेण कथितः प्रबोध-प्रत्ययात्मकः ॥ २॥
लययोगो हठश्चैव मंत्रयोगस्तृतीयकः ।
चतुर्थो राजयोगश्च द्विधाभवविवर्जितः ॥३॥
यच्चित्तसन्ततलयः स लयः प्रदिष्टः ।
यस्तु प्रभञ्जनविधानरतो हठस्सः ।
यो मंत्रमूर्तिवशगः स तु मन्त्रयोगः ।
यश्चित्तवृत्तिरहितः स तु राजयोगः॥ ४ ॥
ओषध्योऽध्यात्मकश्चेति राजयोगो द्विधा क्व​चित् ।
हठोऽपि द्विविधः कापि वायुबिन्दुनिषेवणात् ॥५॥
पट्कर्मप्रतिपत्तिहेतुकमिदं मंत्रं न तद् दृश्यते ।
भ्रूनासादिषु कीटवन्न (द) भि मनो मग्नं कथञ्चिद्भवेत ।।
आधारे पवनो न याति विविधादभ्यासतो योगिनाम् ।
नित्यानन्दमयात्प्रभावनिलयाच्छ्रीराजयोगादृते ॥६॥
नित्यं मंत्रयतो लभेन्न नृपतां (तिः) नैवाधिपत्यं तथा ।
दिव्यस्त्रीनवसङ्गमोऽप्यनुदिनं न ध्यायतो लभ्यते ।
हस्तिन्यास्तुरगः खराञ्च करभः शाल्योदनं कोद्रवात् ।।
जायन्ते हठतः कथं वद विभो स्वीयं प्रभावं विना ॥ ७ ।।