पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७

कुण्डलीं (ली) चालयेत् प्राणो (णान् ) भेदिते शशिमण्डले ।
सिध्यन्ति वज्र​गुम्भानि नव द्वाराणि बन्धयेत् ॥ २३ ॥
सुमनः पावनारूढः स गाढं निर्गुणस्तथा ।
ब्रह्मस्थाननिनादेन शंखिन्यामृतवर्षिणी ॥ २४॥
षट्रचक्रमण्डलोद्धारं ज्ञानदीपं प्रकाशयेत् ।
सर्वेषां स्नापनं देहे क्रियते देवतार्चनम् ।। २५ ॥
चन्द्रामृतेन चिद्रूपमीश्वरं स्नाप्य​ भक्तितः ।
मनःपुष्पं तथा देयमर्चयेत्परमं शिवम् ।। २६ ।।
आत्मरूपं तमालोक्य ज्ञानरूपं निरामयम् ।
दृश्यते देहरूपेण सर्वव्यापी निरञ्जनः ॥ २७॥
हंस हंस पदे वाक्यं प्राणिनां देहमाश्रितः ।
सम्प्राणापानयोर्ग्र​न्थिरूपे...त्यभिधीयते ।। २८॥
सहस्रमेकञ्च युतं षट्छतं चैव सर्वदा।
उच्चरपदतो हंसः सोऽहमित्यभिधीयते ॥ २९॥
पूर्वभागे मथो लिङ्गं शंखिन्यां चैव पश्चिमम्।
ज्योतिर्लिङ्गं भ्रुवोर्मध्ये रक्तशुक्लात्मकं शिवम् ।। ३० ।। ।
पूर्वपश्चिमदिग्भागे वज्र​दण्डे व्यवस्थिते ।
द्वौ षष्टिभोगिनी स्थानं पशाल्लिङ्गं प्रकाशयेत् ॥ ३१ ॥
शीताशीतं परं स्थानं मेदोमज्जाभिपूरितम् ।
स्रवति ब्रह्मणः स्थानात् सिञ्चते भुवनत्रयम् ॥ ३२॥
सर्वव्याधिक्रियाकर्म-वातपित्तसमन्वितम् ।
दशाष्टदोषरहितं मीननाथेन कथ्यते ॥ ३३ ॥

॥ इति मत्स्येन्द्रनाथविरचितं भक्तिसं (?) सम्पूर्णम् ॥