पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४

गोपनीयं प्रयत्नेन तस्करेभ्योधनं यथा ।
तेषां यो बोधयेत् मोहादपरीक्षितम​न्दधीः ॥ १११ ॥
न हि मुक्तिर्भवेत्तस्य सदा दुःखेन सीदतः ।
खेचरी भूचरी योगी शाकिनी च निशाचरी ।। ११२ ॥
एतेषामद्भुतं शापः सिद्धानां भैरवस्य च।
मस्तके तस्य पतति तस्माद्यत्नेन रक्षयेत् ॥ ११३ ॥
गुरुपादाम्बुजस्थाय प​रीक्ष्य प्रवदेत्सदा ।
कुतो दुःखं च भीतिश्च तत्त्वज्ञस्य महात्मनः ।। ११४ ।।
कृपयैव प्रदातव्यं सम्प्रदायप्रवृत्तये ।
सम्प्रदायप्रवृत्तिर्हि सर्वेषां सम्मता यतः ॥ ११५ ।।
मायाशंकरनाथाय नत्वा सिद्धान्तपद्धतिम् ।
लिखित्वा यः पठेद्भक्त्या स याति परमां गतिम् ।। ११६ ।।
विदधात्वत्यर्थनिच(ल)यं भक्तानुग्रहमूर्तिमत् ।
स्मरानन्दपरं चेतो गणप​(य)त्यभिधं महः ॥ ११७ ॥

।। इति श्रीगोरक्षनाथकृतौ सिद्धसिद्धान्तपद्धतौ अवधूत-

योगिलक्षणं नाम षष्ठोपदेशः ॥ ६ ॥


३६ -उपरोक्ष तु (बो). ३७ -यआश्रित्य​ (यो.).